________________
भास्कर
[भाग २
समझता हूं कि इस एकमात्र अशुद्ध प्रति की वजह से अशुद्धियों का कुछ भी संशोधन नहीं किया
जा सका:
जातः श्रीवीरसिंहः सकलरिपुकुलवातनिर्धातपातोवंशे श्रीतोमराणां निज विमलयशोप्राप्तदिक्चक्रवालः। दानानैविवेकैर्न भवति समता येन साकं नृपाणाम् केषामेषाकहीनां प्रभवति धिषणा वर्णने तद्गुणानाम् ॥१॥ ईश्वरचूडारत्नं विनिहितकरघातवृत्तसंघातः । चन्द्र इव दुग्धसिन्धोस्तस्मादुद्धरणभूपतिर्जनितः ॥२॥ यस्य हि नृपतेर्यशसा सहसा शभ्रीकृते त्रिभूवनेऽस्मिन् कैलाशतिगि (?)र निकरक्षी?) रतिनीरं शुचीयते तिमिरम् ॥३॥ तत्पुत्रोवीरमेन्द्रः सकलवसुमतीपालचूड़ामणिर्यः प्रख्योतः सर्वलोके सकलबुधकलानन्दकारी विशेषात् । तस्मिन् भूपालरत्ने निखिलनिधिगृहे गोपदुर्गे प्रसिद्धम् भुंजाने प्राज्यराज्यं विगतरिपुभयं सुप्रजःसेव्यमानम् ॥४॥ वंशेऽभूज्जैसवाले विमलगुणनिधिः भूलणः साधुरत्नम् साधुः श्रीजैनपालोऽभवदुदितयास्तत्सुतो दानशीलः । जैनेन्द्राराधनेषु प्रमुदितहृदयः सेवकः सद्गुरूणाम् लोणाख्या सत्यशीलाजनि विमलमतिजौणपालस्य भार्या ॥५॥ जाताः षट् तनयास्तयोः सुकृतिनोः श्रीहंसराजोऽभवत् . तेषामाद्यतमस्ततस्तदनुजसैराजनामाजनि । रैराजो भवराजकस्समजनिप्रख्यातकीर्त्तिर्महान् साधुः श्रीकुशराजकस्तदनुजः श्रीक्षेमराजो लघुः ॥६॥ ज्ञाता श्रीकुशराज एव सकलदमापालचूड़ामणिः श्रीमत्तोमरवीरमस्य विदितो विश्वासपात्र महान् । मन्त्री मन्त्रविचक्षणः क्षणमयः क्षीणांरिपक्षः क्षणात् क्षोण्यामीक्षणरक्षणक्षममतिजैनेन्द्रपूजारतः ॥७ स्वर्गस्पर्द्धिसमृद्धिकोऽतिविमलश्चैत्यालयः कारितो लोकानां हृदयङ्गमी बहुधनैश्चन्द्रप्रभस्य प्रभोः। येनैतत्समकालमेव रुचिरं भज्यं च काव्यं तथा