________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SHRUTSAGAR
34 January-February - 2015 विघ्नोत्सारणे, ‘फड् हन्ति [अव्ययशब्दवृत्ति, सूत्र-७२] इति अव्ययशब्दवृत्तौ । शान्तिस्तवसूत्रे तु 'ह्रां ह्रीं' इति वर्णद्वयमधिकं दृश्यते, तत्स्वरूपं न विद्मः । अत्र पूर्ववृत्तेषु पृथक् पृथञ् यानि मन्त्रपदान्युक्तानि तानि साकल्येन दर्श्यन्ते- ॐ नमो भगवतेऽर्हते शान्तिनाथस्वामिने सकलकलातिशेष कामहासम्प-त्समन्विताय त्रैलोक्यपूजिताय नमो नमः शान्तिदेवाय सर्वाम[सुसमूहस्वामिसम्पूजिताय भुवनजनपालनोद्यताय सर्वदुरितविनाशनाय सर्वाशिवप्रशमनाय सर्वदुष्टग्रहभूतपिशाचमारिशाकिनीप्रमथनाय नमो भगवति! जये! विजये! अजिते! अपराजिते! जयन्ती(न्ति)! जयावहे! सर्वसङ्घस्य भद्रकल्याणमङ्गलप्रदे! साधूनां श्रीशान्तितुष्टिपुष्टिदे! स्वस्तिदे! भव्यानां सिद्धिवृद्धि-निवृतिनिर्वाणजननि! सत्वानामभयप्रदान[निारते! भक्तानां शुभावहे! सम्यग्दृष्टीनां धृतिरतिमतिबुद्धिप्रदानोद्यते! जिनशासननिरतानां श्रीसम्पत्कीर्तियशोवर्द्धनि! रोगजल-ज्वलनविषविषधरदुष्टज्वरव्यन्तरराक्षसरिपुमारिचौरईतिश्वापदोपसर्गादिभयेभ्यो रक्ष रक्ष, शिवं कुरु कुरु, [3] तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, नमो नमः हूँ ह्रः यः क्षः ह्रीं फट् फट् स्वाहा। [इति द्वादश-त्रयोदश-चतुर्दशकाव्यत्रयार्थः ।। ||१२||१३||१४।।
एवं यन्नामाक्षर-पुरस्सरं संस्तुता जयादेवी। कुरुते शान्तिं नमतां, नमो नमः शान्तये तस्मै ।।१५।। इयं पथ्या
व्याख्या-तस्मै शान्तये नमो नमः। तच्छब्दो यच्छब्दमपेक्षते। "एवम्' इति प्रकृतपरामर्श, एवम्-अमुना प्रकारेण यन्नामाक्षरपुरस्सरं यस्य-श्रीशान्तेः नामाक्षरे'शान्ति इति वर्णद्वये पुरस्सरे-मुख्ये यत्र-संस्तवे, तक्रियाविशेषणम्, संस्तुता सती जयादेवी नमतां-प्रणामं कुर्वतां शान्तिं कुरुते। [इति पञ्चदशमपथ्यार्यार्थः] ।।१५।।
इति पूर्वसूरिदर्शित-मन्त्रपदविदर्भितः स्तवः शान्तेः। सलिलादिभयविनाशी, शान्त्यादिकरश्च भक्तिमताम् ।।१६ ।। पथ्या
व्याख्या-इति-उक्तप्रकारेण पूर्वसूरिभिः-पूर्वाचार्यैः दर्शितैः-गुर्वामन्यायपूर्वकं प्रकाशितैः मन्त्रपदैर्विदर्मितः-विरचितः शान्तेः स्तवः सलिलादिभयं विनाशयतीत्येवं शीलः सलिलादिभयविनाशी, च-पुनः शान्तिरादिरेषां तुष्टिपुष्ट्यादीनां ते शान्त्यादयः, तान् करोतीति शान्त्यादिकरः। केषाम्? भक्तिमतां-भक्ता नाम्। ननु 'विदर्भितः'
१. आ कृति प्रायः अद्यावधि अप्रकाशित छे. ज्ञानमंदिरमा संगृहीत प्रत क्रमांक ३२३६२ ना आधारे आ सूत्रसंख्या जणावी छे. प्रतमां सूत्र ‘फट् विघ्न प्रनिह ऊत्सरणे' आ रीते मळे छे:-संपा.
For Private and Personal Use Only