________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
23
श्रुतसागर
जनवरी-फरवरी · २०१५ त्वं रक्ष रक्ष। केभ्यः? सलिला-ऽनल-विष-विषधर-दुष्टग्रह-राजरोग-रणभयतःसलिलं च जलम, अनलश्चाऽग्निः, विषं च क्ष्वेडः, विषधराश्च सर्पाः, दुष्टग्रहाश्च सूर्यादयोऽशुभगोचरवर्तिनः, राजरोगश्च क्षयरोगः, यद्वा राजानश्च नृपाः, रोगाश्च वातपित्त-श्लेष्मसन्निपातजा व्याधिप्रभेदाः, रणश्च विग्रहः, तेषां यद्भयं-भीः, तस्मात् ।
तथा राक्षस-रिपुगण-मारी-चौरे-ति-श्वापदादिभ्यः-राक्षसाश्च-रात्रिञ्चराः, रिपुगणाश्च वैरिवृन्दानि, मारी च सर्वलोकव्यापिनीमृतिः, चौराश्च पाटच्चराः, ईतिश्च धान्याधुपद्रवकारी प्रचुरो मूषिकादिप्राणिगणः, श्वापदाश्च हिंस्रा व्याघ्रादयः, ते आदिर्येषां दुष्टव्यन्तरादीनाम्, तेभ्यः ।
तथा सशिवं-सकल्याणम्, 'लक्ष्मीवृन्दम्' इत्यध्याहार्यं व्याख्येयम्, कुरु कुरु । यत्र 'सुशिवम्' इति पाठस्तत्र तु चारुतैव, नाऽध्याहारः कर्त्तव्यः।
च-पुनः सदा नित्यम् इति-प्रत्यक्ष शान्तिं कुरु कुरु। तथा तुष्टिं-तोषं कुरु कुरु। तथा पुष्टिं-सुखपोषं कुरु कुरु। तथा स्वस्तिं च कल्याणं कुरु कुरु। च:समुच्चये।
ननु 'स्वस्ति' इत्यस्याऽव्ययत्वात् कथं 'स्वस्तिम्-इत्यत्रम् स्वाद्युत्पत्तिउच्यते? तत्प्रतिरूपकः शब्दोऽयम्, इत्यत एतत्प्रयोगस्याऽदुष्टत्वम्, भागवतेऽप्यस्य शब्दत्वेन भणनात् 'त्वं पद्रथानां किल युथपाधिपो-घटस्व नो स्वस्तय आश्वनूह' [भागवत] इति। तथा खण्डप्रशस्तावपि-'समस्तनिगमस्तुतो नृहरिरस्तु नः स्वस्तयः [खण्डप्रशस्ति] इति।
अत्र पथ्यायामन्तचरणे 'कुरु कुरु स्वस्तिं च कुरु कुरु त्वम् इति लक्षणेऽयं समाधिविधिः-'लघुताऽपि क्वचिद् गुरोः' इत्यत्र क्वचिद्ग्रहणं लक्ष्यानुरोधार्थम्। तेन ह्रादिकसंयोगे पुरः स्थिते पादादावपि लघोर्गुरुत्वाभावः। यथा दर्शनं हादिकसंयोगे यथा- तव ह्रियापह्रिया मम हीरभूत, शशिग्रहेऽपि हृतं न धृता ततः। बहुलभ्रामरमेचकतामसं, मम प्रिये! क्व समेष्यति तत्पुनः? ||१|| [ ] तथा- 'धनं प्रदानेन श्रुतेन की [
] इत्यादि । तथा शिव-शान्ति-तुष्टि-पुष्टिस्वस्ति इह-सङ्घ जनानां भक्तालोकानां कुरु कुरु। शिवञ्च शान्तिश्च तुष्टिश्च पुष्टिश्च स्वस्ति च समाहारे द्वन्द्वैकत्वे शिवशान्तितुष्टिपुष्टिस्वस्ति। 'ओमिति' इति पादपूरणे। अन्यानि पुरतो मन्त्रपदान्येव।
अत्र वृत्तत्रये मन्त्रपदान्यमूनि-'रोगजलज्वलनविषविषधर दुष्टज्वरव्यन्तरराक्षसरिपुमारिचौरईतिश्वापदोपसर्गादिभयेभ्यो रक्ष रक्ष, शिवं कुरु कुरु, तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, ॐ नमो नमः हूं ह्रः यः क्षः ह्रीं फट् फट् स्वाहा। फडिति
For Private and Personal Use Only