________________
Shri Mahavir Jain Aradhana Kendra
SHRUTSAGAR
www.kobatirth.org
36
[ श्री उत्तरदिशाश्रितदधिमुखचतुष्कस्थितजिनबिम्बपूजा ]
श्रीमदुत्तरदिग्भागे, नाम्ना दधिमुखो गिरिः । तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥ १ ॥ उदीच्यां च दिशायां च (यो), द्वितीयो हि दधिमुखः । तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥२॥ उत्तरायां दिशायां च (यो), तृतीयश्च दधीमुखः । तत्रस्थितान् जिनाधीशान् पूजयेऽहं गुणाप्तये ॥३॥ उत्तरस्यां दिशि ख्यातो, नाम्ना चतुर्थश्च दधिमुखः । तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥४॥
Acharya Shri Kailassagarsuri Gyanmandir
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे उत्तरदिशाधिष्ठितदधिमुखचतुष्के जिनपूजां यजामीति स्वाहा ॥
।। अथाऽष्टकम् ॥
क्षीरनीर - हीर - तीर - गौरवारिधारयाऽमन्दकुन्द - चन्दनादिसौरभेण सारया । धीमुखे चतुष्कके जिनेन्द्रपादपङ्कजे, प्रपूजयामि नन्दिनाम्नि सौख्यधाम्नि चाऽष्टमे ॥१॥
अर्कतर्कवर्जनै(?)रनर्घचन्दनद्रवैः, कुङ्कुमादिमिश्रितैरनल्पषट्पदाश्रितैः । दधीमुखे चतुष्कके जिनेन्द्रपादपङ्कजे, प्रपूजयामि नन्दिनाम्नि सौख्यधाम्नि चाऽष्टमे ॥२॥
ॐ ह्रीं श्रीनन्दीश्वरे (नन्दीश्वरद्वीपे ) [ उत्तरदिग्गत | दधिमुखचतुष्के [श्री] जिनबिम्बेभ्यो जलं यजामीति स्वाहा ॥ १ ॥
NOVEMBER-2014
पारिजात - वारिसुत-कुन्द - हेमकेतकी, मालती-सुचम्पकादिसारपुष्पमालया । दधीमुखे चतुष्कके जिनेन्द्रपादपङ्कजे, प्रपूजयामि नन्दिनाम्नि सौख्यधाम्नि चाऽष्टमे ॥३॥
ॐ ह्रीं श्रीनन्दीश्वरे (नन्दीश्वरद्वीपे ) | उत्तरदिग्गत ] दधिमुखचतुष्के [श्री] जिनबिम्बेभ्यश्चन्दनं यजामीति स्वाहा ॥२॥
For Private and Personal Use Only