________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
19
श्रुतसागर
नवम्बर-२०१४ श्रीचन्दनैः कनकवर्णसुकुङ्कुमाद्यैः, कृष्णागुरुद्रवयुतैर्घनसारमित्रैः। प्राचीदिशारतिकराष्ट[क]चैत्यबिम्बे(म्बान्), नन्दीश्वरे वरगिरौ परिपूजयामि ।।२।।
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पूर्वदिगाश्रितरतिकराष्टकेषु [श्री]
जिनबिम्बेभ्यश्चन्दनं यजामीति स्वाहा ॥२॥ हेमाभचम्पक-वराऽम्बुज-केतकीभिः, सत्पारिजातकचयै-र्बकुलादिपुष्पैः। प्राचीदिशारतिकराष्ट[क]चैत्यबिम्बे(म्बान्) नन्दीश्वरे वरगिरौ परिपूजयामि ॥३॥
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पूर्वदिगाश्रितरतिकराष्टकेषु [श्री]
जिनबिम्बेभ्यः पुष्पं यजामीति स्वाहा ॥३॥ रत्नादि(भासोम-घृतदीपचयैः रघघ्न-निकहेतुभिरत्नम(ल)प्रहतान्धकारैः। प्राचीदिशारतिकराष्ट[क]चैत्यबिम्बे(म्बान्), नन्दीश्वरे वरगिरौ परिपूजयामि ॥४॥
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पूर्वदिगाश्रितरतिकराष्टकेषु [श्री]
जिनबिम्बेभ्यो दीपं यजामीति स्वाहा ॥४॥ कृष्णागुरुप्रमुखधूपभरैः सुगन्धैः, कर्मेन्धनाग्निभिरहो विविधो विधिनोपनीतैः। प्राचीदिशारतिकराष्ट[क]चैत्यबिम्बे(म्बान्), नन्दीश्वरे वरगिरौ परिपूजयामि ॥५॥
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पूर्वदिगाश्रितरतिकराष्टकेषु [श्री]
जिनबिम्बेभ्यो धूपं यजामीति स्वाहा ॥५॥ स्वल्पैः सुगन्ध(न्धि)कलमाक्षतचारुपुजै-हीरोज्ज्वलैः शुभतरैरिव पुण्यपुजैः। प्राचीदिशारतिकराष्ट[क]चैत्यबिम्बे(म्बान्), नन्दीश्वरे वरगिरौ परिपूजयामि ॥६॥
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पूर्व दिगाश्रितरतिकराष्टकेषु [श्री)
जिनबिम्बेभ्योऽक्षतं यजामीति स्वाहा ॥६॥ स्वर्गापवर्गसुखदैर्वरपक्ववासै- रिङ्ग-निम्बु-पनसा-[ऽऽमलका]-ऽऽमकैर्वा। प्राचीदिशारतिकराष्ट[क]चैत्यबिम्बे(म्बान्), नन्दीश्वरे वरगिरौ परिपूजयामि ||७||
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पूर्वदिगाश्रितरतिकराष्टकेषु [श्री] जिनबिम्बेभ्यः(भ्यो) फलं यजामीति स्वाहा ॥७॥
For Private and Personal Use Only