________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
20
SHRUTSAGAR
NOVEMBER-2014 शाल्योदनैः सुखकरैघृतपूरयुक्तैः, शुद्धैः सदा मधुरमोदक-पायसान्नैः। प्राचीदिशारतिकराष्ट[क]चैत्यबिम्बे(म्बान्), नन्दीश्वरे वरगिरौ परिपूजयामि ॥८॥
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पूर्वदिगाश्रितरतिकराष्टकेषु [श्री]
जिनबिम्बेभ्यो नैवेद्यं यजामीति स्वाहा ॥८॥ वा-र्गन्धशालि-जसुपुष्पचयैर्मनोज-नैवेद्य-दीप-वर(फल)-धूपलतादिभिर्वा। प्राचीदिशारतिकराष्ट[क]चैत्यबिम्बे प्रोत्तारयामि वरमर्घमिहाष्टकेऽहम् ॥९॥
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पूर्वदिगाश्रितरतिकराष्टकेषु [श्री]
जिनबिम्बेभ्योऽयं यजामीति स्वाहा ॥९॥ ॥ इति श्रीपूर्वदिगाश्रितरतिकराष्टकस्थितजिनबिम्बपूजा । पूजाष्टकस्तुतिमिमामसमामधीत्य, योऽनेन चारुविधिना वितनोति पूजाम्। भुक्त्वा नरामरसुखान्यविखण्डिताक्षः(क्षो) धन्यः स वासमचिराल्लभते शिवेऽपि॥१॥ ॥इति श्री पूर्वदिगाश्रितत्रयोदशगिरि(स्थित)जिनबिम्बपूजा समाप्ता ।
___ [श्रीदक्षिणदिग्गताञ्जनगिरिस्थितजिनबिम्बपूजा] दक्षिणस्यां दिशि योऽसा-वजनो नाम पर्वतः। तत्रस्यं जिनबिम्बं च, पूजयामि गुणाप्तये॥
॥अथाऽष्टकम्॥ गङ्गापगातीर्थसुनीरपूरैः, शीतैः सुगन्धैर्घनसारमित्रैः। नन्दीश्वरे दक्षिणकज्जलाद्रौ, सम्पूजये श्रीजिनराजबिम्बम् ॥१॥
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे दक्षिणदिग्स्थिताञ्जनगिरौ
श्रीजिनबिम्बेभ्यो जलं यजामीति स्वाहा ॥१॥ श्रीचन्दनैर्गन्धविलुब्धभृङ्गः, सर्वोत्तमैर्गन्धविलासयुक्तैः। नन्दीश्वरे दक्षिणकज्जलाद्रौ, सम्पूजये श्रीजिनराजबिम्बम् ।।२।।
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे दक्षिणदिग्स्थिताञ्जनगिरौ श्रीजिनबिम्बेभ्यश्चन्दनं यजामीति स्वाहा ॥२॥
For Private and Personal Use Only