SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org च श्रुतसागर - ३५ मार्गिता । यद्यस्ति मानयन्ति न ( ? ) । ततो भापिताः । तदा शाब्दिकेनेत्थमुक्तम्'आत्मनां पञ्चम एष एवाऽभूत्, तेन मान्यताम् ।' चतुर्भिरपि ततो रत्नपेट्य आनीताः । राज्ञोक्तम्- 'पञ्चमीपेटी क्च?' तैरुक्तम्- 'सोमनाथ ! क्षणं प्रतीक्षितमभविष्यत् तर्ह्यस्माभिः सह प्रतिपन्नमैत्रीकः पञ्चमोऽपि चोरश्चटितोऽभविष्यत् । तेन च पञ्चमीपेटी गृहीताऽस्ति ।' नृपेण तद्वचोऽवगण्य तालाक्षेपायाऽऽदिष्टम् । तदा शाब्दिकेनोक्तम्'छन्नं (न्नः) पञ्चमश्चो (चौ) र एष एव । अनेनोक्तमभूद् यत्राऽहं स्यां ते न मार्यन्ते । आत्मनां तु मरणं भवदस्ति, ततो विज्ञप्यते नृपतेः (तिः) ।' त्रिभिरुक्तम्- 'त्वमेव विज्ञपय ।' ततो धृतधैर्यं (र्यः) स आह- 'हे स्वामिन्! वयं चौरा एव परं त्वमपि पञ्चमोऽभूत् । त्वया तूक्तमभूद्येष्वहं स्यां ते न मार्यन्ते । ते वयं तु मार्यमाणाः स्म । तेन दर्शय त्वमपि स्वां शक्ति (क्तिम्) । ततो राज्ञा दत्तं तेषामभयदानम् । आनायिता च स्वगृहीता पञ्चमीपेटी" । षष्ठी तु न ला (ल)भ्यते । ततोऽनुमानेन कोशाध्यक्षमेव चौरं ज्ञात्वा नाडीभिर्निब (बि) डं ताडयित्वा षष्ठ्यप्याऽऽनायिता । नृपाः सहस्राक्षाः स्युः । उक्तं आचक्षन्ते सहस्राक्षाः, सत्यं क्ष्मापा विचक्षणैः । राजा रजक तेऽज्ञासी - निष्काश्चौरहृता यतः । ८२ ।। ततः तत्स्थाने नव्यकोशाध्यक्षः कृतः । ( पुनस्तान् चौरान्- ) चौर्यपापतमस्येह, वधबन्धादिकं फलम् । जायते परलोके तु, फलं नरकवेदनाः (ना) ||८३ ।। सम्बन्ध्यपि निगृह्येत चौर्यान् मण्डलिक व - (यम् ) परार्थग्रहणे येषां । । ८४ ।। Acharya Shri Kailassagarsuri Gyanmandir ४७ For Private and Personal Use Only इत्याद्युपदिश्य नृपेण चौर्यपातकाच्चत्वारोऽपि निवर्त्तिताः । परिधाप्य बहुग्रामाधिपत्यं दत्वा च स्वाङ्गापलणी(लम्बी) कृताः । एव (वं) सर्वप्रकारैः सर्वप्रजां सुखिनीं विधाय दिव्यखड्गबलेन मणिप्रभावेण च बहुदेशेषु स्वाज्ञां प्रवर्त्तयामास । एकदा दशपूर्वगत श्रुतधराः श्रीधर्मघोषसूरयो महीमण्डले विहरन्तो भृगुकच्छे समवासार्षुः । उद्यानपालकनिवेदित (तो) गुरूणे (णां) वन्दनार्थमायासीत् सपरित्स (च्छ ) दो नृपः । तेषां दर्शनेन८३. अम्हे आपापणी (आप-आपणी) शक्ति देखाडी ते देखाडि (?) इत्यर्थः । ८४. राजाई आपण येई (पेटी) जणावी (अणावी)' इत्यर्थः ।
SR No.525285
Book TitleShrutsagar Ank 2013 12 035
Original Sutra AuthorN/A
AuthorMukeshbhai N Shah and Others
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2013
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy