SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १३० लब्धोयेन विशिष्टशास्त्र पठनाद् बोधो बुधाश्चर्यकृत् सोऽयं श्री तुलसीगणी विजयते विश्वम्भरा विश्रुतः।।२।। प्राज्ञा यत्र सहस्रशः प्रतिदिनं देशाद् विदेशात् तथाऽऽ गत्यात्यन्तविनम्रमस्तककरा आराधयन्ति त्रिधा । यद्वाचच निशम्य हृष्ट हृदया गच्छन्ति तृप्तिं परां पूज्यः श्री तुलसी गुरुर्विजयतेज्ञानाब्धिपाङ्गभः ।।३।। यस्याणुव्रतचर्यंया प्रतिदिशं देशोऽद्भुतामुन्नतिं चारित्रस्य गतोऽति धर्मनिरतो जातश्च सन्मानवः । प्रक्षाध्यानविद्यानतश्च नितरां लाभान्वितो दृश्यते पूज्यः श्री वदनासुतः स जयति प्रज्ञाप्रकर्षाश्रयः ।।४।। यच्चितं विमलं विचारचतुरं सद्ध्यानमग्नं सदा यद्वायो मधुराः स्त्रवन्तिसततं पीयूषधारां पराम् । यत्कायोऽपि पवित्रसंयमबलाद् दीप्त्यन्वितो वर्तते सोऽयं श्री तुलसी विभूर्विजयते ज्ञानार्कपूर्वाचलः ।।५।। शिक्षा यत्र न वर्ततेस्म न तथा विज्ञो जनो वा जनी तत्रैवाद्य विशिष्टशिक्षणरताः संस्थाश्चविद्वद्वराः । यद्यत्नाच्च गुरूपमा मुनिजनाः साध्व्यः श्रमण्यस्तथा सोऽयं ज्ञानदिवाकरो जिन इवाचार्यः क्षितौ भासते ।।६।। यावद् वाति नमस्वान् भाति विवस्वान् विराजते हिमगुः । तावन्नवमाचार्यस्तुलसीपादोऽवतात् सर्वान् ।।७।। (पथ्यार्या) श्रीमुदितमुनिः अभिनन्दनपत्रम् सरदारशहरसागर-सज्जाताद्भुतपरार्ध्यरतं यः। जयति महाश्रमणोऽसौ मुदितमुनि म विख्यातः।।१।। यो बाल्यकालेऽपि समंवयस्यैमहामुनीनां सविधं समेत्य । तन्नैवतस्थौ विनयेन तावदायाति यावन्न जनः स्वकीयः ।।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525039
Book TitleSramana 1999 10
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year1999
Total Pages202
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy