________________
महान्
यस्य स्फाटिकसन्निभं शुचि मनः शुद्धोपयोगाञ्चितं यस्याणुव्रतदेशनाश्रवणतो वृत्तं श्रिता मानवाः । प्रेक्षाध्यानविधिर्यतः समुदितो लोकोपकारक्षमआचार्यप्रवरस्तनोतु तुलसी श्रेयः सदा नः प्रभुः ।।१।। देशस्यास्य समस्तभूमिरभितो यत्पादचिह्नाङ्किता यस्याचार्यपदस्थितस्य सुमतेरर्धा शताब्दी गता। यस्यामागमवाचना सह तया सम्पादनं चाभवद् आचार्यप्रवरस्तनोतु स सुधीः श्रेयः परं नः प्रभुः।।२।। यच्चित्तस्थतभावनावगमनाद् भक्तैर्जनैः सत्वरं सम्भूयातुलबोधदाननिरता संस्था समुद्घाटिता। मान्यश्चात्र विशिष्टशिक्षणपरोऽसौ विश्वविद्यालयआचार्यप्रवरः सको विजयते लब्धप्रतिष्ठो महान् ।।३।। यच्छिष्योऽवनिभालमण्डननिभः शास्त्राब्धिपारङ्गमोविद्वद्वन्द्यपदारविन्दयुगलः सत्साधुलक्ष्माश्रयः। सत्तर्कप्रतितर्कमण्डितमतिः स्तुन्यो युवाचार्यकआचार्याङ्घ्रिपदारविन्दनिलयो नूनं मिलिन्दोपमः ।।४।।
- अमृतलालः
पूज्य श्री तुलसी गणी यत्पादाब्जरजोविलिप्तशिरसो भक्ताः पवित्राशया
स्वैसन्ध्यं परिपूजयन्तिनियमात् सम्भूय भव्या जनाः । यन्नामाद्य समस्तविश्वविदितं यद्वाङ्मयं विस्तृतं
पूज्यः श्री तुलसीगणी विजयते विश्वम्भरा विश्रुतः ।।१।। पूर्वोपात्तविरागतोऽल्पवयसि व्यक्त्वा गृहं दीक्षितो
मुक्तारम्भपरिग्रहो गुरुकृपादृष्ट्या च जिज्ञासया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org