SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ नागपुरीयतपागच्छ का इतिहास स्फूर्जदूरिगुणान्विता गणधरश्रेणी सदा राजते ।।२।। वर्षे वेद-मुनीन्द्र-शङ्कर (११७४) मिते श्रीदेवसूरिः प्रभुः। जज्ञेऽभूत् तदनु प्रसिद्धमहिमा पद्मप्रभः सूरिराट्। तत्पट्टे प्रथितः प्रसनशशिभृत सूरिः सतामादिमः। सूरीन्द्रास्तदनन्तरं गुणसमुद्राह्वा बभूवुर्वधाः।।३।। तत्पट्टे जयशेखराख्यसुगुरू: श्रीवज्रसेनस्ततस्तत्पट्टे गुरुहेमपूर्वतिलकः शुद्धक्रियोद्योतकः। तत्पट्टे प्रभुरत्नशेखरगुरुः सूरीश्वराणां वरस्तत्पट्टाम्बुधिपूर्णचन्द्रसदृशः श्रीपूर्णचन्द्रप्रभुः।।४।। तत्पट्टेऽजनि प्रेमहंससुगुरुः सर्वत्र जाग्रद्यशा: आचार्या अपि रत्नसागरवरास्तत्पट्टपद्मार्यमा। श्रीमान्हेमसमुद्रसूरिरभवछोहेमरत्नस्तत स्तत्पट्टे प्रभुसोमरत्नगुरवः सूरीश्वराः सद्गुणाः।।५।। तत्पट्टोदयशैलहेलिरमलश्रीजेसवालान्वयाऽलङ्कारः कलिकालदर्पदमनः श्रीराजरत्नप्रभुः। तत्पट्टे जितविश्ववादिनिवहा गच्छाधिपाः संप्रति सूरिश्रीप्रभुचन्द्रकीर्तिगुरवो गाम्भीर्यधैयाश्रयाः।।६।। तैरियं पद्मचन्द्राह्वोपाध्यायाभ्यर्थना कृता। शुभा सुबोधिकानाम्नी श्रीसास्वतदीपिका ।।७।। श्रीचन्द्रकीर्तिसूरीन्द्रपादाम्भोजमधुकरः। श्रीहर्षकीर्तिरिमां टीकां प्रथमादर्शकेऽलिखत् ॥८॥ अज्ञातध्वान्तविध्वंसविधाने दीपिकानिभा। दिपिकेयं विजयतां वाच्यमाना बुधैश्चिरम् ।।९।। स्वल्पस्य सिद्धस्य सुबोधकस्य सारस्वतव्याकरणस्य टीकाम् । सुबोधिकाख्यां रचयाञ्चकार सूरीश्वरः श्रीप्रभुचन्द्रकीर्तिः।।१०।। गुण-पक्ष-कला (१६२३) संख्ये वर्षे विक्रमभूपतेः। टीका सारस्वतस्येषा सुगमार्था विनिर्मिता ॥११॥) इति श्रीमन्नागपुरीयतपागच्छाधिराजभट्टारकश्रीचन्द्रकीर्तिसूरिविरचिता श्रीसारस्वतव्याकरणस्य दीपिका समाप्ता।। अस्मिन् समाप्ता ।। समाप्तोऽयमिति ग्रन्थः । A. P. Shah, Ibid, Part II, No- 5974, Pp376-377. मोहनलाल दलीचंद देसाई, जैनसाहित्यनो संक्षिप्त इतिहास, बम्बई १९३१
SR No.525036
Book TitleSramana 1999 01
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year1999
Total Pages166
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy