________________
अकाल मृत्यु किन जीवों की नहीं होती है ?
औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषोऽनपवायुषः ॥ 53 ॥
-मो. शा.अ.2
औपपादिका देवनारका इति । चरमशब्दोऽन्त्यवाची। उत्तम उत्कृष्टः । चरम उत्तमो देहो येषां ते चरमोत्तमदेहाः । परीतसंसारास्तज्जन्मनिर्वाणाऱ्या इत्यर्थः । असंख्येयमतीतसंख्यानमुपमाप्रमाणेन पल्यादिना गम्यमायुर्येषां त इमे असंख्येयवर्षायुषस्तिर्यङ मनुष्या उत्तरकुर्वादिषु प्रसूताः । औपपादिकाश्च चरमोत्तमदेहाश्च असंख्येयवर्षायुषश्च औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषः । बाह्यस्योपधातनिमित्तस्य विषशस्त्रादेः सति संनिधाने हस्वं भवतीत्यपवर्त्यम् । अपवर्त्यमायुर्वेषां त इमे अपवायुषः । न अपवायुषः अनपवायुषः । न ह्यषामौपपादकादीनां बाह्यनिमित्तवशादायुरपवय॑ते, इत्ययं नियमः । इतरेषामनियमः । चरमस्य । देहस्योत्कृष्टत्वप्रदर्शनार्थमुत्तमग्रहणं नार्थान्तरविशेषोऽस्ति । 'चरमदेहा' इति वा पाठः । ।
-प्रा. पूज्यपादकृत सर्वार्थसिद्धि
उपपादजन्मवाले, चरमोत्तमदेहवाले और असंख्यात वर्ष की आयुवाले जीव अनपवर्त्य आयुवाले होते हैं । (इनमे अतिरिक्त शेष अन्य जीवों का ऐसा कोई नियम नहीं है ।)