________________
व्याख्या- भो साधो ! जगति लोके विड्-पुरीषं संस्कारशतेन सुगन्धकरणोपायलक्षेणाऽपि इति गम्यते काश्मीरजं किं जायते वाल्हीकमयं किं भवेदपि त नैव । दृष्टान्तामभिधाय दार्टान्तमाह-देहो वपुरम्भसा पानीयेनानुदिनं निरन्तरं प्रक्षालनादपि आप्लवविलेपनादपि । किं शुचितां पवित्रतां ब्रजेत् भवेत् ? अपि तु नैव । हे साधो ! अतो नख-दन्त-वक्त्र-वपुषां कामाऽङ्कुश-मल्लकास्यांगांनां संस्कारं-समार्जनमुपलक्षणत्वात्पोषणादिकं त्वया भवता युज्यते-ऽर्थात् श्लाघ्यते ? अपि तु न । कथमित्याहः-किलेति सत्ये अकामी अनभाकोवा(?) अमदनेच्छुः मण्डनप्रियो न वर्यः प्रसाधनचन्द्रककस्तूरिकादि वल्लभोऽभिलाषी न भवेदिति शेषः । इति पूर्वोक्तप्रकारेण त्वं सार्थक देहं शरीरमिति सेषः । मा कृथा मा कार्षीरर्थादिमं देहं सखायं मा कुरु इति काव्यार्थः ।। २३ ॥
॥ गाथा-२४॥ आयुष्यं तव निद्रयार्द्धमपरं चायुस्त्रिभेदादहो। बालत्वे जरया किययसनतो यातीति देहिन् ! वृथा। निश्चिन्त्यात्मनि मोहपाशमधुना संच्छिद्य बोधासिना।
मुक्तिश्रीवनितावशीकरणत्वचारित्रमाराधय ॥ २४ ॥ व्याख्या- हे देहिन् ! तव भवत आयुरेवायुष्यं भवज्जिवितं अर्द्धं विभागः यथा कस्यचिच्छतवर्षायुषोऽर्द्ध पञ्चाशत् वर्षाणि भवन्ति तदायुर्निद्रया प्रमीलया याति । च पुनरपरं शेषमायुरहो इत्याश्चर्ये त्रिभिदा त्रिभागतो यातीति शेषः । तथाह-बालत्वे शैशवे, जरया विश्रसया, कियदायुर्व्यसनतो द्युतादिभिः कष्टतो वा हे देहिन् । वृथा यातीति भावः । आत्मनि स्वदेहे एवमिति शेषः, निश्चिन्त्य विचार्याऽधनेदानीं बोघासिना ज्ञानचन्द्रहासेण मोहस्य अज्ञानस्य पाशमिव पाशं मोहपाशं संच्छिद्य सर्वथा त्रोटयित्वा, किमर्थमित्याह-मुक्तेर्महोदयस्य श्री शोभा-ऽनन्तज्ञानमयालक्ष्मीर्वा सा मुक्तिश्री सैव वनिता ललना तस्या वशीकरणत्वे संवननहेतुत्वे चारित्रं सर्वविरमणरूपं यत्तन्मुक्तिश्रीवनितावशीकरणत्वचारित्रं आराधय संसाघयेति भावः । अन्योऽपि यः संसारे स्त्रीप्रियो भवति स नानाविघमन्त्र-तन्त्रादिभिर्वशीकरणोपाये वर्तत इति काव्यार्थः ।। २४ ॥
37