________________
॥ गाथा-२५॥ वृत्तैर्विंशतिभिश्चतुभिरधिकैः सल्लक्षणेनान्वितं । ग्रंथं सज्जनचित्तवल्लभमिमं श्री मल्लिषेणोदितं । श्रृत्वात्मेन्द्रियकुञ्जरान्समटतो रून्धन्ति ते दुर्जयान्।
विद्वांसो विषयाटवीषु सततं संसारविच्छित्तये ॥ २५ ॥ व्याख्या- चतुर्भिरधिकैर्विंशतिर्भिवृत्तैश्चतुर्विंशतिकाव्यैरिमं सज्जनचित्तवल्लभं ग्रंथं पूर्वोक्तस्वरूपं श्रीमल्लिषेणेन गरुप्रतिबोधार्थं सशिष्येण उदितं भाषितं श्रीमल्लिषेणोदितं । किम्भूतैः काव्यैः व सत्शोभनं लक्षणं तेन अन्वितैः सहितैः सल्लक्षणान्वितैरत्राऽलुक्समासः । इमं ग्रन्थं श्रुत्वा-ऽऽकर्ण्य ते विद्वांसः पंडिता विषयाटवीषु पञ्चेन्द्रियत्रिविंशतिविषयकतारेषु समटतः आत्मनि भ्रमतः इन्द्रियाण्येव कुञ्जरान् स्तम्बरमांस्तान् दुर्जयान् दुःखेन जीयंत इति दुर्जयान् तान् प्रतिरुन्धन्ति निरोधयन्ति किमर्थं संसारविच्छित्तये सततं निरन्तरं संसृतिविमोचनाय यः साधुः संसारभोगभिलाषी सन् तपस्तप्यते तस्य भवान्तं दुःखं । यदुक्तं सिद्धान्ते-“नो इहलोट्टयाए तवमहिट्ठिज्जा” इत्यादिवचनात् । अतो मुक्त्यंगनालिंगनतत्परेण साधुना तपस्सत्संयमक्रियाऽनुष्ठानप्रमुखं केवलं मोक्षार्थमेव कर्त्तव्यमिति काव्यार्थः ।। २५ ।।
॥प्रशस्ति । श्रोतव्या सुजनैर्जनैरनुदिनं कामौघनिर्वृत्तये। ग्रन्थे सज्जनचित्तवल्लभवरे शक्यानुसारेण च ॥ भव्येयं मुनिनेतृसिंहकविना वृत्तिः कृता भावतः। शोध्यैषा कृतिभिः स्वभावसरलैः सल्लोकसेवान्वितैः ।। ॥ इति श्री सज्जनचित्तवल्लभस्य वृत्तिः संपूर्णाः॥ शम् ।।
38