________________
सिताज्यमयभोजनेन पुपोष । कतिचिद्दिनातरं स वक्ति स्म हे प्रिये ! अहं तु स्थंभ इव किमपि न शृणोमि नापि पश्यमि, तदा छद्मशोकेन बह्वाक्रंदन चकाराऽथ च पुपोष । अतो परं सा निःशंका जाता, ततः सोपपतिमाकार्य भोगान् भुङ्क्ते स्म । तदा स उपपति प्राह त्वदीयपतेश्च का वार्ता ? सोवाच निर्भयेन तिष्टाऽत्र, अयं च न पश्यति नाकर्णयति महाशब्दैरपि । कतिचिन्मासाः स्वपत्नीचरितं पश्यता निर्गमिता, ततः सरसाहारैः श्रेष्ट्यपि बलिष्टोऽजनि । चैकदोपपतिं सुरतं सेव्यमानं वीक्ष्य जारं प्रति स्थूलयष्ट्या जघान हे दुष्ट ! मद्गृहे नित्यमेव मे पश्यमः सतोऽनाचारं करोषि । तदा तयां स्त्रीचरितं विलसितं-शीघ्रमुत्थाय नानाभेषजप्रसेविकां तत्करे दत्वोवाचोच्यैः रवेण सा “भो लोका ! पश्यतु पश्यतु चक्षुर्वार्त्तार्थं नेत्रसमाधिहेत्वर्थमाकारितं वैद्यं यथा करोति मे पतिः निर्जंतुकमेनं [? निर्हेतुकमेनं] निर्भत्स्यते” इति लोकाः समागत्य श्रेष्टिनं प्रति सर्वेऽपि चैकगिरा वदंति “भवादृशामेवं युज्यते ? सतीयं भवत्परिष्टिकराऽवलोक्यते” । सर्वेषां प्रतिवचो दातुमशक्यत्वान्मौने स्थितः, तदा लोकैरुक्तः
पंचासावोलीणाच्छठाणा तुणजंति पुरूसस्स रूवाणा
वयसा उहिरि सत्तोदारया चैव ॥ इति स्त्रीचरितं ।। अतो हे मुने ! युवतीगृहेषु मागाः, चेन्च्छसि तदा विश्वासे भवत इति सेषः संशयः संदेहरस्यात् । अपि च ते तव जनवाच्यता लोके विगानं भविष्यतीति भावः । ततः स्थानात्पुमर्थं पुरूषार्थं न स्यात् भवेत् तर्हि किं कर्तव्यमित्यत आहःगुरूक्तवचनमाज्जिनोक्तवाक्यं शीर्षे मस्तके समारोपयतु अर्थादाराघयन् त्वं तिष्ट किंभूतस्त्वं ? स्वाध्यायानुरतः स्वाध्यायः पंचघा वाचनाप्रश्नपरिवर्तनानुप्रेक्षाधर्मकथास्तत्रानुरतो मग्न एव विचरतु । पुनश्चेद्यदि विकृतिं व्रजसि भूयो विकारं भजसि तदा त्वमेव क्षयं यासि साधुत्वात्त्वमेव विनश्यसीति काव्यार्थः ।। २२ ।।
॥ गाथा-२३॥ कि संस्कारशतेन विड् जगति भो काश्मीरजं जायते। किं देहः शुचितां व्रजेदनुदिनं प्रक्षालनादम्भसा ।। संस्कारो नख-दन्त-वक्त्र-वपुषां साधो त्वया युज्यते। नाकामी किल मण्डनप्रिय इति त्वं सार्थकं मा कृथाः॥ २३ ॥
36