________________
कुतो मृतिभयात् स्वप्राणनाशभीतितः, तत्र वनितोपलक्षिते स्थाने क्षणं नाडिकाषष्टांशमात्रमपि त्वं मा स्था मा तिष्ठेति काव्यार्थः ।। २१ ।।
।। गाथा-२२ ।
मा-गास्त्वं युवतीगृहेषु सततं विश्वासतां संशयो । विश्वासे जनवाच्यता भवति ते न स्यात्पुमर्थं ततः ।। स्वाध्यायानुरतो गुरूक्तवचनं शीर्षे समारोपयन् । तिष्ठ त्वं विकृतिं पुनर्वज्रसि येद्यासि त्वमेव क्षयं ।। २२ ।। व्याख्या- युवतीनामग्रहेष्टरजसां प्रत्यग्रनिर्गतकुचानां प्रोषितभर्तृकानां त्यक्तकुलह्रियां गृहेषु धामसु सततमनारतं विश्वासतां त्वं मा गाः मा गच्छार्थात् तत्र बैश्वास्यं मा कार्षीरिति भावः । स्त्रीविलसितं चरितं गहनमत्रोदाहरणं कथेयः
एकस्मिन्नगरे कस्यचिद् वृद्धश्रेष्ठिनो द्वितीयवारोढा वधूरतीव पांशुला स्वभर्तुः पार्श्वाद्यथेष्टं काममनासदयन्ती आरामे नित्यं यक्षं सेव्यमाना पुष्पधूपाद्यार्च्यमाना च व्यक्तीत्थं हे गुह्यक । “मे पतिं बधिरं गताक्षं कुरु” त्वत्सेवाफलमेतावदेव याचे । एकदाऽऽरामाध्यक्षया पुष्पावचायिन्या तानि प्रच्छन्नतया श्रुतानि । तया श्रेष्टिपुरतस्तद्भार्यावचांसि ज्ञापितानि । तदा श्रेष्ठिना स्त्रीचरितमजानता सैव पृष्टा किं मया क्रियेत् ? तदा तयैव स्त्रीचरितोपलक्षितयोक्तं हे श्रेष्टिन् ! प्राप्तस्त्वमेवं प्रोच्या “अद्याहं सम्यग्तया न पश्यामि न श्रृणोमीति” ततोहं त्वदुपकृतये भव्यं विद्यास्ये, श्रेष्ठिनोक्तं तथेति । तदा साऽऽरामिका तत्पूर्वं यक्षपृष्ठे स्थिताऽऽसीत्, ततः श्रेष्ठिवघ्वागतायां पूर्वोक्तविधिना सेव्यमानायां यक्षभाषयोवाय सा पुष्पावचायिनी “यथेष्टं वृणु यथेष्टंवृणु मार्गय मार्गयं तुष्टोऽस्मि त्वत्सेवया” तदा त्वया स्वेप्सितं मार्गितं, तदोक्तं भव्यं भव्यं परमेवं क्रियाः “सदशनैसद्वचनैस्सद्वस्त्रैश्शय्यासनादिभिस्तु तत्तुष्टिं विधेयास्त्वदुक्तं भविष्यतीति याहि” । अतो तुष्ट्वा स्वगृहे जगाम । ततो द्वितीयदिने श्रेष्ठी प्रातरेवं जगाद हे प्रिये ! अद्याहं सम्यग् न श्रृणोमि न पश्यामीति किं ज्ञायते ? तदान्तर्तुष्टतया बाह्यशोकत्वेन सोवाच हा कांत ! किं जात ? मंदभाग्याहं किं करिष्ये यदि तव शरीरे किमपि दुष्टं जातं, तदा मे मरणमागतं किं बहुनोक्तेन पतिरेव परमेश्वरो नारीणामित्युक्तत्वात् । तदा श्रेष्ठी प्राह सत्यं परं कर्मगत्या अग्रे किं बलं । त्वं सुकुलीनाऽसि मम यादृतादृक्विधस्य सेवां करिष्यसीति । ततो विशेषतस्सा
35