________________
श्रीरनन्तज्ञानरूपा समवसरणर्द्धिलोकप्रत्यक्षा वा सा विद्यते यस्यासौ श्रीमान् स चासौ जिनश्च श्रीमज्जिनः, स एव इन्द्रः श्रीमज्जिनेन्द्रस्तेन प्ररूपितं सुचरणं सर्वसावद्यनिवृत्तिरूपं चारित्रं लब्ध्वा प्राप्येति सर्वत्र संयोज्यते । इदृशं देहं सुपोतकं शरीरप्रवहणं अलमतिशयेन वसूनि रत्नानि तेषां पूर्णहेतुभिः सपूर्णकारणैः कृत्वा गुणैर्ज्ञानादिभिर्भृतं स्वचितं गुणभृतं, भो साधो स्तोकाय सौख्याय क्षणिकवैषयिकशर्मणे, ते तव किमिति प्रश्ने भङ्क्तुं कलाकलीकर्तुं स्फोटयितुं इच्छा स्पृहाऽस्ति वर्तते । एतावता हे साधो ! प्रोक्तगुणैर्भृतं देहपोतकं न भङ्क्तव्यमिति काव्यार्थः।। २० ।
।। गाथा-२१
वैतालाकृतिमर्द्धदग्धमृतकं दृष्ट्वा भवन्तं यते ! । यासां नास्ति भयं त्वया सममहो जल्पन्ति चेत्प्रत्युत । राक्षस्यो भवने भवन्ति वनिता मामागता भक्षितुं । मत्वैव प्रपलायतां मृतिभयात् त्वं तत्र मा स्था क्षणम् ।। २१ ।।
व्याख्या- हे यते ! अयि जितेन्द्रिय ! वैतालो लोके भयङ्कररूपस्तद्वदाकृतिराकारं यस्य स वैतालाकृतिस्तं तादृशं भवन्तं दृष्ट्वा त्वामवलोक्य यासां स्त्रीणामर्थात् वृषस्यतीनां भयं साध्वसं नास्ति न विध्यते । कथम्भूतं भवन्तं ? अर्द्धदग्धमृतकं किञ्चिद्य्लोषितप्रतीतसदृशाङ्गं । अहो इत्याश्चर्ये त्वया भवता समं सार्द्धं चेद्यदि ताः स्त्रियः प्रत्युत इत्युक्तविप्रतारणार्थेऽव्ययं किमिति यासां भयस्थानात्पलायनं संजागटीति तत्पलायनमास्तां, त्वया सार्द्धं निःशङ्कतया जल्पन्ति वदन्ति भवने गृहे विजन इति गम्यते । भवन इत्यनियतपदमन्यत्र गिरिकन्दरागहनादिष्वपि ज्ञातव्यं । तत्र वनिता उत्कटकामा राक्षस्या इवेति शेषः भवन्ति । राक्षसीनां मृतकं भक्ष्यमित्याह मां भक्षितुमागता मां प्रतिजग्धुं समेता, अर्थात् मत्संयमजीवितं विनाशयितुमुपस्थिता एवं पूर्वोक्तप्रकारेण मत्वा ज्ञात्वा भवान् प्रपलायतां ततस्स्थानात् प्रणश्यतामिति
भावः ।
यदुच्यते
"
मा ज्ञासीर्वनितामियं मम वशा, के केऽनया वञ्चिता । यस्याधःपतिता वदेत्तमपि सा दृष्टो न चान्यो नरः ।। मुक्त्वा तं य यथा रमेत सततं सर्वैः समं स्वेच्छया । किं भो मूढ ! नर ! विदन्तु मनसा चैषा मदीया ध्रुवं ॥
34