SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ व्याख्या तु कासाञ्चिदाश्रित्य न तु सर्वासां” ग्रन्थकर्तुराकूतं स्त्रीणामतिनिर्भत्सनेति काव्यार्थः १७ ॥ ॥ गाथा-१८॥ अन्येषां मरणं भवान् विगणयन् स्वस्यामरत्वं सदा। देहिंश्चितयसीन्द्रियद्विपवशीभूत्वा परिभ्राम्यसि ॥ अय स्वः पुनरागमिष्यति यमो न ज्ञायते तत्त्वतः। तस्मादात्महितं कुरु त्वमचिराद्धर्मं जिनेन्द्रोदितं ॥ १८ ॥ व्याख्या- हे देहिन् ! जीव ! अन्येषां स्वतो परेषां सागो निरागसां मरणं निधनं भवांस्त्वं विगणयन् विशेषेण तदायुर्दिनानां संख्यां कुर्वन्, अर्थादयं कदा मरिष्यतीति चिंतयंस्तिष्ठसीति शेषः । पुनः सदा सर्वदा स्वस्यात्मनः उपलक्षणत्वात्स्वकीयवर्गस्याऽपि अमरत्वं अजरामरारोग्यत्वमर्थात्कदापि न मरिष्यामीति चिन्तयसि ध्यायसि किं कृत्वा ? इन्द्रियाण्येव द्विपाः करिण इन्द्रियद्विपास्तेषां वशीभूत्वा संवननीभूयं परिभ्राम्यसि बाढं भ्रमसीत्यर्थः संसारे इति शेषः । त्वयैवं न ज्ञायते न प्रतीयते किमिति ? यमो मृत्युरद्यास्मिन्दिने पुनरथवार्थे स्वो दिने आगमिह्यो आगमिष्यति समेष्यति एवायमर्थो भवता नो ज्ञायते नावसीयते । भावत एवं जानाहि यथा त्वदग्रेऽन्येषां मरणं दृश्यते तथाऽन्येषामग्रे तवाप्यवश्यं मरणं भावीत्युपनयः । तस्मात्कारणात्तत्वतः परमार्थतः जिनेन्द्रोदितं सर्वज्ञभाषितं धर्म मोक्षनेतारं अचिराद्वेगतः अप्रमादतया शेषकार्याणि विमुच्य त्वं कुरु विधेहीति काव्यार्थः ।। १८॥ ॥ गाथा-१९॥ देहे निर्ममता गुरौ विनयता नित्यं श्रुताभ्यासता। चारित्रोज्ज्वलता महोपशमता संसारनिर्वेगता। अन्तर्बाह्यपरिग्रहत्यजनता धर्मज्ञता साधुता। साधो ! साधुजनस्य लक्षणमिदं संसारविच्छेदकृत् ॥ १९ ॥ व्याख्या- हे साधो ! हे मुने ! साधुजनस्य मुनिलोकस्य इदं कथ्यमानं लक्षणं, लक्ष्यते लक्ष्यमनेनेति लक्षणं साधुस्तु लक्ष्यं तद्गुणसामुदायिकं लक्षणं । किंभूतं लक्षणं ? संसारविच्छेदकृत् भवपर्यन्तकारीति भावः । तदाह- देहे शरीरे स्वस्येति संबंधः 32
SR No.523351
Book TitleAho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2015
Total Pages132
LanguageHindi, Sanskrit
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy