________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[११७
भ:
સ્વર્ણાક્ષરી કલ્પસૂત્રક દૂસરી પ્રશસ્તિ संघपतिपर्वतस्य प्रेमवती प्रेयसी कर्येका । नरसिंहो वरसिंहो लाखाकरचेति तत्तनुजाः ॥ १२ ॥ लक्ष्मीद्वितीयपत्नी नूत्नीभूतेव निश्चला लक्ष्मीः । तत्पुत्र उदयकर्णः काम इवोदामगुणपूर्णः ॥ १३ ॥ युग्मम् ॥ कुटुम्बिनी कुंअरि आम्रसाधोः पांचीसिंहस्य वधूः प्रशस्ता ।
पुत्रस्तु खीमाभिध इत्यमेयं कुटुम्बकाडम्बरमेतदीयम् ॥ १४ ।। इतश्च ॥ श्रीवीरवंशे गणभृक्त्सुधर्मा श्रीस्थूलभद्रो दृढशीलधर्मा।
स्वामी ततोऽभुद् वरवज्रसंज्ञः क्रमादभूत् कालिकसूरिविज्ञः ॥ १५ ॥ चान्द्रे कुले श्रीवरवज्रशाखाविभूषणं दूषणवर्जितात्मा । टीकापटुः श्रीहरिभद्रसूरिरुद्योतनः सूरिरभूदभूरिः ॥ १६ ॥ श्रीवर्द्धमानो विमलप्रधानसंप्रार्थ्यमानोऽर्बुदशैलशेखरम् । नगाधिपाद् वज्रमयी पुरातनी नाभेयमूर्ति प्रगटोचकार ॥१७॥ जिन यतिधर्ममितेव्दे (१०२४) अंगौरपत्तने चतुरशीतिम् । निर्जित्य चैत्यराजं राजसमाजे महाचार्यान् ॥ १८ ॥ वसतिनिवासं यतीनां, संस्थाप्य प्राप्य दुर्लभनृपेण । दत्तं खरतरबिरुदं, श्रीसूरिजिनेश्वरः सोऽभूत् ॥ १९ ॥ युग्मम् ॥ श्रीस्र्थभनकजिनपतेः प्रादुर्भावादिभूरिमाहात्म्यः ।। अभिनवनवांगविवरणवेधाः श्रीअभयदेवगुरुः ॥ २० ॥ उत्सूत्रशैलकुलिशो, जिनवल्लभसूरिरभिहितसुतत्त्वः । विदितो युगप्रधानः श्रीजिनदत्तोऽबिकादेशात् ॥ २१ ॥ नृमणिशिरा जिनचंद्रः षट्त्रिंशद्वादविजयजिनपतिः। क्रमतः श्रीजिन कुशलः कुशलकरः स्मरणमात्रेण ॥ २२ ।। क्रियाप्रवीणो जिनपद्मसूरिः प्रौढप्रभावो जिनलब्धिसूरिः । यतीश्वरो श्रीजिनचंद्रनामा जिनोदयः श्रीजिनराजसूरिः ॥ २३ ॥ श्रीमति खरतरगच्छे जिनभद्रगणेन्द्रपट्टमुकुटानाम् । श्रीजिनचन्द्रगुरूणामुपदेशसुधारसं पीत्वा ॥ २४ ॥ अलंकृतौ मालवमंडलस्य धाराभिधायां पुरिक्लप्तवासौ । श्रीपर्वताम्राभिधसंघमुख्यौ दानादिनानाविधपुण्यदक्षौ ॥ २५ ॥ श्रीजैनचैत्यप्रतिमाप्रतिष्ठाश्रीतीर्थयात्रादिगरिष्ठकाथैः । प्रभावको श्रीजिनशासनस्य लक्षQत सम्प्रति लेखयंतौ ॥ २६ ॥
For Private And Personal Use Only