________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
રાવણતીર્થ કહે છે? तत्सूनुर्द्धतसिंहोभून्नथमलस्तदंगजः । सारंगाख्योमहातेजा जातस्तन्नन्दनो बली ॥५॥ तस्याङ्गजो बभूवात्र पुण्यपालो महाभुजः । तं कुलोद्योतह(क)चासोत्ये पोति गुणाग्रणी ॥ ६ ॥ तस्य पुत्रो गुणज्ञाता दानी विक्रमवानभूत् । श्रीकान्हड़ो जनश्रेष्ठस्तत्पत्नी विमला सती ॥ ७ ॥ . तस्य कुक्षिसरोहंसः पक्षद्वयसुशोभितः ।। शुद्धसम्यक्त्वधारी च ज्ञानी दानी धनी तथा ॥ ८ ॥ हीरानंद इति ख्यातस्तत्पल्यौ शुद्धवंशजा । जीवादेति सती रम्या द्वितीया रायकूअरि ॥ ९ ॥ श्रीयोगिनीपुरे पूर्व सर्वेऽप्येते कृतालयाः । संप्रति श्रीमदर्गलपुरे चासौ [प्र] वर्तते ॥ १० ॥ जिनभक्तिमता तेन सम्यक्त्वगुणसेविता । श्रीअलवरदुर्गे च दर्शनस्य विशुद्धये ॥ ११ ॥ कारापितमिदं चैत्यमत्रवेषां शुभे दिने । स्थापना पार्श्वनाथस्य प्रतिमा रावणाभिधाः ॥ १२ ॥ श्रीमत्बृहत्खरतरगच्छेशः सूरिपुङ्गवः । श्रीजिनसिंघसूरीन्द्रः आसीत्सर्वगुणोदधिः ॥ १३ ॥ श्रीजिनचंद्रसूरिस्तु विद्यतेऽद्य तदन्वये । तस्यादेशात्सहर्षेण सर्वसंघसमागमे ॥ १४ ।। वाचकैः रंगकलशैः शीलादिगुणभूषितैः । परिवारयुतैश्चैतत्सत्प्रतिष्ठापनं कृतम् ।। १५ ॥ तावनंदतु चैत्योऽयं हीरानंदस्तथैव हि। यावत्भूमिश्चन्द्रार्की सर्वे सत्त्वसुखाकरौ ॥१६॥ तीर्थभक्तिरतस्यास्तु सव्वुभं () ।
यः पुण्यवांश्च धर्मज्ञः पुण्यक्षेत्रमचीकरत ॥ १७ ॥ एषा प्रशस्ति लिपीकृता वा० श्रीरङ्गकलशगणीनां शिष्येण राजकलशमुनिना शुभम् ॥ संवत् १६४५ वर्षे माघ वदि १३ शनि दिने श्री अकबर जलालुदीनराज्ये श्री आगरावासी साह हीरानंदेन श्री अलवरगढदुर्गे नवीनकारापितचैत्यालये श्रीरावणपार्श्वनाथस्य प्रतिमा स्थापिता। श्रीरस्तु ॥ कल्याणमस्तु ॥ शुभं भवतुः ॥
For Private And Personal Use Only