________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ २७४ ]
શ્રી જૈન સત્ય પ્રકાશ
अथान्यदाऽऽनम्य मुदा जिनेन्द्रं, सीमन्धरं तीर्थकरं सुरेन्द्रम् । पप्रच्छ सौधर्म्मपतिर्निगोद, - विचारणाकर्णनसप्रमोदः ॥ ६१ ॥ विभोऽधुनाssस्ते भरतेsपि कचि - निगोदतत्त्वार्थविदे विपश्चित् । जिनेश्वरोऽप्याह स कालिकार्यों, वेविद्यते सर्वविचारवर्यः ॥ ६२ ॥ विप्रस्य रूपेण समेत्य शक्रो, वेदं वदन्नात्मनि दम्भवक्रः । संप्रनयामास निगोदजीव - विचारमेवं गुरुरुच्चचार ॥ ६३ ॥ एकैकशोऽसंख्यनिगोद भाजां, गोला असंख्या अखिलेऽपि लोके । जानीहि चैकैकनिगोद मध्ये, जीवाननन्तानिति सूरिराह ॥ ६४ ॥ विज्ञाय पृष्टासुरथामरेन्द्र !, संभाषितः स्वीकृतस्त्रीयरूपः । सूरिं नमस्कृत्य तदालयस्य, द्वारं परावर्त्य जगाम धाम ॥ ६५ ॥ गीतार्थशिष्यं स्वपदं प्रदाय, समाधिना योग्नशनं विधाय । द्यामाप संधाय चतुर्विधाय सः कालिकः सूरिवरः शिवाय ॥ ६६ ॥ - ( शार्दूलविक्रीडितवृत्तम् )
,
इत्थं कालिक रिराजचरितं सम्यकथाया मया,
Acharya Shri Kailassagarsuri Gyanmandir
वृद्धाया अवगम्य रम्यमहिमं संक्षेपतो भाषितम् ।
ये कल्पागमवाचने सक्जिया व्याख्यान्ति वर्षं प्रति,
ત્ વ છે
श्रीमन्तो विबुधजे तिलकतां लब्ध्वा शिवं यान्ति ते ॥ ६७॥
॥ इति कालिकाचार्यकथानकं समाप्तम् ॥ मंगलमस्तु श्रीसंघस्य ॥ ॥ श्रीः ॥ १ ॥
For Private And Personal Use Only
કળા અને શાસ્ત્રીય દષ્ટિએ સર્વાગ સુંદર ભગવાન મહાવીરસ્વામીનું ત્રિરંગી ચિત્ર
૧૪”×૧૦”ની સાઇઝ: આર્ટ કાર્ડ ઉપર ત્રિરંગી છપાઇ : સાનેરી ऑर्डर : भूल्य-यार माना : ( ट्यास अर्थ होढ मानो भुट्टो ) શ્રી જૈનધમ સત્યપ્રકાશક સમિતિ शिंगलार्धनी वाडी, घीघंटा, सभहावा.