SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી કાલિકાચાર્ય-ક્યા [ २७३ j एवं प्रकारैः स कृतो निरुत्तरः, पुरोहितः सूरिषु बाह्यसादरः । वहनम्यां नगरेऽत्यनेषणा,-मचीकरत्तामवबुध्य तत्क्षणात् ॥ ४७ ॥ आर्या महाराष्ट्रमहीविभूषणे, ययुः प्रतिष्ठानपुरेऽस्तदूषणे । तत्रास्ति भूमीपति सालवाहनः, सदाहतो विक्रममेघवाहनः ॥४८॥ समागते पर्युषणाभिधाने, पर्वण्यथासन्नतरे प्रधाने । श्रीकालिकाचार्यपुरो विशेष, विश्वापतिर्विज्ञपयत्यशेषम् ॥ ४९ ॥ नभस्यमासोज्ज्वलपञ्चमीदिने, शक्रोत्सवोत्र प्रथितोऽखिले जने । षष्ठयां ततः पर्युषणा विधीयता, ममैष मानः सुगुरोः प्रदीयताम् ॥५०॥ विज्ञाय विज्ञप्तिमिमां नरेशितुः, स्मृत्वाऽऽह सूरिः समयं जिनेशितुः। न लध्यते पर्युषणाख्यवासर,-स्तां पञ्चमी चेञ्चलतीह मन्दरः॥५१॥ कुर्यात्तदर्वाग्रिति गां सुराजः, श्रुत्वा चतुर्थ्यामथ पर्वराजः। गणाधिपैस्तस्य महोपरोधा, दाधायि सिद्धान्तविधिप्रबोधात् ॥ ५२ ॥ अथान्यदा दुर्विनयं विनेय,-व्रजं विलोक्य प्रभुरेवमूचे । तपो निरर्थ किल कूलवाल,-पञ्चालिकाजीवमहासतीवत् ॥ ५३॥ इत्यादिदृष्टान्तपरम्पराभिः, शिष्यानबुद्धानवबुद्धय ताभिः । एकः प्रभुस्तं निजशिष्यशिष्यं, सूरिं ययौ सागरचन्द्रकाख्यम् ॥ ५४ ॥ धम्मोपदेशं दिशतोऽस्य बाढं, श्रीकालिकार्योऽभिदधाति गाढम् । नास्तीह धर्मो भुवि भूरिसत्त्वाः, पञ्चप्रमाणा विषयात्मकत्वात् ॥ ५५ ॥" खपुण्यवन्ध्यातनयादिदृष्ट,-दृष्टान्तभावै रसभाव इष्टः। अजातपुत्रस्य यथा न नाम, नासिद्धधर्मस्य तथाऽस्ति धाम ॥ ५६ ॥ श्रुत्वेति तां कर्कशतर्कवाचं, विस्तारयन्तं मुनिवृद्धमेतम् । अहो ! अयं कालिकसूरितुल्यो, विचिन्तयन् सागरचन्द्र ऊचे ॥ ५७ ॥ नेत्याश्रितोऽस्तीति पदप्रयोगः, पदद्वयस्यास्य विरोधयोगः। ... इत्युत्तरैः स्थापितधर्मवृक्षं, स सागरः प्राह फलैः समक्षम् ॥ ५८ ॥ श्रीसागरायो विहितस्वरूपः, सुवर्णभुव्यस्ति स सूरिभूपः । शय्यातरज्ञापितसर्वभावाः, शिष्याः समागुः पुनरत्र भावात् ॥ ५९ ॥ गच्छस्य संगादवगम्य सूरि,-मसौ गुरुं क्षामयति स्म भूरि । स वालुकाप्रस्थनिदर्शनेन, श्रीसूरिणाऽबोधि च सागरेन्द्रः॥ ६०॥ For Private And Personal Use Only
SR No.521574
Book TitleJain_Satyaprakash 1941 12
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1941
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy