________________
Shri Mahavir Jain Aradhana Kendra
श्री जिनप्रभमूरिविरचितं चैत्यवन्दनम्
www.kobatirth.org
-
Acharya Shri Kailassagarsuri Gyanmandir
संग्राहक
पंडित अमृतलाल मोहनलाल संघवी
( द्रुतविलंबित वृत्तं )
ऋषभ ! नम्रसुरासुरशेखरं, प्रपतयालुपराग पिशंगितम् । क्रमसरोजमहं तव मौलिना, जिन ! वहे नवहेमतनुद्युते ! ॥ १ ॥ अपरवस्तु विलोकनलालसा - विषनिषेधयुधां सुषमा सुधाम् । वपुषि ते पिवतां मम चक्षुषी, अजित ! भाजितभास्वरकांचनाम् ||२|| हरिहरा दिसुरौघविलक्षणा - ऽद्भुतचरित्रचमत्कृत विष्टपम् । सुजन ! भोः पदपीठविलोलुउ-त्सुमनसंभव-संभव ! दैवतम् ||३|| मदनदुर्दमदंतिदमे हरि- स्तरुमृगांकितमूर्त्तिरुपाश्रितान् । हृतमहारजतद्युतिरग्रणी, शमवतामतादभिनन्दनः ॥ ४ ॥ चरणलक्ष्मिकरग्रहणोत्सवे, विरचितैरयनद्वितयावधि । धृतसुखातिशया वसुवर्षणैर्वसुमती सुमतीश ! कृता त्वया ||५|| स्मितजपाकुसुमोपमदीधिर्ति, कुमतकोककुलामृतदीधितिम् । शरणमीशमुपैमि जगत्त्रयी- मुदरविंदरविं धरनंदनम् || ६ || सकललोकचमत्कृतिकारिणि, जिन ! सुपार्श्व ! भवगुणघोरिणीम् । क इव नो मतिमान् भुवनत्रये, कुमुदभामुदभावयदुच्चकैः ॥ ७ ॥ शुचिमद्गरुचा तु पराजितः शशधरोऽकमिपाद्यमशिश्रयत् । सपदि लोचनयोर्मम कल्पतां, स महसे महसेनसुतो जिनः ||८|| सुविधितीर्थकरं करुणाकरं करणेंविष्करपाशमुपास्महे । कर कांति विनिर्जितकार्तिकी - हिमकरं मकरं दधतं ध्वजम् ||९|| जयति शीतल ! देव ! सरस्वती, त्रिजगतीं पुती कविसेविता । मधुरिमाऽतिशयेन नृणीकृता ऽमृतरसा तरसस्तितृषा तव ॥ १० ॥ जिनवरोऽवतु गण्डकलांछनः, प्रथम विनतांहिसरोरुहः । प्रथितविशुनृपान्वय पुष्करां - वैरेंमणी रमणीगुणाम्बुधिः ॥ ११ ॥
१. स्मरः । २.तरुमृग=वानर । ३. गालितसुवर्णकान्तिः । ४. रक्षतात् । ५. विकसितजासूद । ६. कान्ति । ७. समूह । ८. चन्द्रमा । ९. घरराजसुतं पद्मप्रभुं । १०. इन्द्रियपक्षिणः । ११. करणं=शरीरं । १२. पूग्श् पवने इत्यस्य धातोः शत्रन्ततात् ङी । १३. वेगेन । १४. गण्डकः गेंडो इति भाषायाम् । १५. अम्बरमणिः सूर्यः । १६. मनोहरगुणानां समुद्रः ।
For Private And Personal Use Only