________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
D
શ્રી જન સ ય પ્રકાશ
सद्दालपुत्तनामा, पोलासम्मि कुलालजाईओ।
भज्जा य अग्गिमित्ता, कंचणकोडीओ से तिनि ॥८॥ -~~-पोलासपुरे कुलालजातिकः शब्दालपुत्रो नाम श्राद्धो जातः । तस्य च भायो अग्निमित्राभिधा । त्रिकनककोटीनां स्वामी ।।
चउवीसकणयकोडी, गोउल अहेव रायगिहनयरे ।
सयगो भज्जा तेरस, रेवइ अड सेस कोडीओ ॥९॥ ---राजगृहपुरे शतको नाम गृहपतिरभूत् । तस्य च निधानादिषु चतुर्विंशतिस्वर्णकोटयः बभूवुः । अष्टौ गोकुलानि चासन् । भार्यास्तु त्रयोदशजातास्तासु रेवतीनाम्न्या अष्टौ स्वर्णकोटयः, शेषाणां द्वादशानां त्वेकै का स्वर्णकोटिरभूत् ।
सावत्थीनयरीए, नंदणिपिया नाम सडओ जाओ।
अस्सिणि नामा भज्जा, आणंदसमो य रिद्धीए ॥ १० ॥
--श्रावस्तीपुर्यां नन्दिनिपिता नाम गृहेश आसीत् , तस्याश्विनी भार्या । ऋद्धिस्तु श्रीआनन्दश्राद्ध-समाना ज्ञेया।
सावत्थीनयरीए, तेयलिपिया सावगपवरो।
फुगुणी नाम कलत्तो, आणंदसमो य रिद्धीए ॥११॥ --~श्रावस्तीनगर्यां तेतलोपिता नामको श्रावकावर आसीत्तस्य च भार्या फुगुणी नामा । समृद्ध्या चानन्दसमानोऽभूत् ।
एते दश सम्यक्त्वमूलद्वादशव्रतधारिणः, एकादशप्रतिमाधारकाः, परमरेखाप्राप्ताश्च । दशभिरपि श्राद्धैः विंशतिवर्षाणि यावत् श्रीधर्म आराधितः । तन्मध्ये चतुर्दशवर्षानन्तरं षट् वर्षाणि यावद् गृहचिन्तापरिहारः कृतः । एकादशप्रतिमाऽऽराधनादिदुष्करतपःक्रिया कृता, सर्वेषां मासिकसंलेखनाऽनशनं जातं, प्रान्ते चावधिज्ञानमुत्पन्नं, आनन्दवानामन्येषां देवपरीक्षा बभूव । आयु:समाप्तौ ते दशापि सौधर्मे कल्पे पृथक्प्रथविमानेषु चतुःपल्योपमायुषो देवा अभूवन् ततश्च्युत्वा दशापि महाविदेहे क्षेत्रे राजानो भूत्वाऽवसरे दीक्षां लात्वा विमलकेवलज्ञानलक्ष्मी प्राप्य महानन्दपदानन्तसुखं विलासिनो भविष्यन्ति ।
___ संवत् १५२८ वर्षे अश्विनसिते ५ तिथौ तुंगियापत्तने लिखितमिदं श्रीमहावीरजिनश्राद्धकुलकं परमदेवार्येग स्वपरपउनार्थम् ।
For Private And Personal Use Only