________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી મહાવીરજિન–શાકુલકમ
३८t
चंपाइ कामदेवो, भद्दामज्जो सावओ जाओ। गोउल-छ-अट्ठारस-कंचणकोडीण जो सामी ॥३॥
-चम्पानगयीं कामदेवो नाम गृहपतिरभूत् । तस्य च भद्राभिधाना भार्या । पूर्वोक्तप्रमाणानि षट् गोकुलानि । ६ कनककोटयो निधिगताः, ६ कोटयो व्यवहारगताः, ६ कोटयो व्याजगताः । एवं १८ काञ्चनकोटीनां यः स्वामी समजनि ।
कासीए चुलणापिया, सामा भज्जा य गोउला अट्ट । चउवीसकणयकोडी, सट्टाण सिरोमणी जाओ ॥४॥
-काशीनगर्यां चुलनिपिता नाम गृहपतिरजनि । तस्य च श्यामाभिधा भार्या । पूर्वोक्तपरिमाणान्यष्टौ गोकुलानि । निधिव्यवहारव्याजगताः प्रत्येकमष्टाष्टकोटयः । एवं २४ कनककोटयः समभवन् ।
कासीए सुरदेवो, धन्नाभज्जा य गोउला छच्च । कणयद्वारसकोडी, गहियवओ सावओ जाओ ॥५॥
.-काशीपुर्यां सुरदेवो नाम गृहपतिरभूत् । तस्य च धन्याभिधा भार्या । पूर्वोक्तमानानि गोकुलानि षट् । निधिव्यवहारव्याजगताः षट् षट् च । एवमष्टादश कनककोटयः समजायन्त ।
आलंभियानयरीए, नामेणं चुल्लसयगसड्ढो य । बहुला नामे पिया, रिद्धीए कामदेवसमा ॥६॥
--काम्पिल्यपत्तने आलंकाभिनगर्यां चुल्लशतको नाम गृहपतिरभूत् । तस्य च बहुलाह्वा भार्या । ऋद्धिस्तु तस्य कामदेवसमाना समभूत् ।
कंपिल्लपट्टणम्मी, सड्डो नामेण कुंडकोलियो । पुप्फा पुण तस्स पिया, रिद्धी सिरिकामदेवसमा ॥७॥
-काम्पील्यपत्तने कुण्डकोलिको नाम गृहपतिरभूत्तस्य च भार्या पुष्पा नाम्नी । ऋद्धिस्तु श्रीकामदेवसमा ।
For Private And Personal Use Only