________________
केलिभिः क्रीडति स्माऽऽत्मतुल्यैः समं, बालकैर्बालभावो न चाऽस्ति प्रभौ। ज्ञानरत्नत्रयाली न पुण्यात्मनि, प्रेम पित्रोः परं वर्द्धतां केवलम् ।।५।। घुर्घरीणां क्रमस्थायिनीतं रवो, मातृ-पित्रोर्मुदं सन्ततानाऽधिकाम्। मोहराजः प्रभोरग्रतः स्म च्छलं, संविधाय स्वकं वीर्यमाज्ञीप्सति ॥६॥ अर्भकं क्रोडदेशे समेतं प्रसूः, रन्तुकामं चुचुम्ब स्मितं हर्षभाक् । ज्ञातमेतत् प्रभुर्मोहदस्युं स्वयं, प्राप्नुवन्तं हसत्येव तं तं क्षणम् ।।७।। जातु बालं विभूष्याऽमितैर्भूषणैः, स्कन्धमारोप्य च क्रीडयन्ति स्म तम् । ज्ञापयन्त्यो जनान् पुण्यमच्छं यशो, भूधवस्याऽस्य वंशस्य सन्मूर्तिमत् ।।८।। जातु तं बालकं स्वर्णभूषावृतं, राजदन्तावलस्योत्तमाङ्गस्थितम् । राजमार्गे भ्रमन्तं नदत्तूर्यकं, नागरं नागरा एवमस्ताविषुः ।।९।। धायिनं शुद्धरत्नत्रयस्याऽधिकं, त्रायिणं सत्त्वसङ्घस्य संयायिनम्। मोक्षसौख्याध्वनः सायिनं कर्मणां बालपर्यायिणं त्वां सुसेवामहे ।।१०।।
- स्रग्विणीच्छन्दः ।। बालक्रीडामपरिमितिकामेवमादर्श्य पित्रो -
मोहस्पर्शी समयरसिकां लौकिकाचारवृत्तिम् । कान्ता कान्तं मदनजननं लब्धलावण्यभोगं
सीमायातं कमनशमनो यौवनं प्राप नाथ ।।११।।
इति श्रीसहजकीर्तियतीन्द्रविरचिते श्रीफलवर्द्धिपार्श्वनाथमाहात्म्ये महाकाव्ये
बालक्रीडावर्णनात्मकश्चतुर्थः सर्गः ।।
यौवनवर्णन-तत्समयाचारवर्णनात्मकः
पञ्चमः सर्गः विलोक्य क्षमानायकं मोहवस्तु
द्विषं शङ्कमानो जगामाङ्गमध्यम् । प्रभोर्यौवनाक्रान्तचित्तो मनोजः
स्फुरन्मन्त्रिणो मन्त्रहूतो यथाऽहिः ॥१॥