________________
वपुर्नेत्रयुग्मं गतिं वक्रमक्ष
व्रजं मन्मथो वीर्यशक्त्या सरन्त्याम् । प्रभोर्दीपयामास दीप्तान्यपीत्थं
रसोपेतसस्यं यथा मर्त्यलोके ।।२।। इदं कार्यमेतन्न कार्यं न पेयं
तथा पेयमेतन्न गम्यं च गम्यम्। न योग्यं तथा योग्यमेतन्न हेयं
तथा हेयमित्यादिका लोकनीतिः ।।३।। समेते मनोजे हृदि प्राणभाजां
चिरान्नं न शीतीव मद्ये विपीते। परं वीतसङ्गस्य सङ्गं प्रपन्नो
यथा तीर्थनाथस्तथा चाचलीति ।।४।। कुमारे स्फुरद्यौवने द्यूतमांसे
सुरापान-वेश्यागमौ प्राणिहिंसाम् । परस्त्रीरतिं चौरकर्माऽन्यनिन्दा
पुरे विप्रलम्भं परच्छिद्रवृत्तिम् ।।५।। कुनीतिं कुवृत्तिं कराधिक्यदानं
मिथः कूटसाक्षित्वमल्पाधिकं च। परद्रव्यरक्षापहारं च लोको ।
. न कर्तुं क्षमश्चेतसाऽपि प्रमादात् ।।६।। कुमारेण दृष्ट्वा पुरं वीक्ष्यमाणं
सुधावृष्टिसृष्ट्या तरां वर्वृधीति । प्रशस्यं यथा क्षेत्रमासारपूर्ण
धनेनाऽऽशु पुण्याम्भसा पूरितेन ।।७।। तदा तापसो दुस्तपा दुष्टकर्मा ___कठाख्योऽक्षमापूर्णगात्रः समेतः । पुरीकानने लोकवर्गोऽनुयातो
ऽभिनन्तुं कुमारोऽपि मात्राग्रहाच्च ।।८।।