________________
[३] च्यवन-जन्म-सूर्योदयवर्णनात्मकः
तृतीयः सर्गः अथ नागपतिप्रणतो मरुतां, सुखतामनुभूय चिरं विरतः। जनितोत्तमतीर्थकरोच्चपदोऽजनि राजकुले विमले विमले ॥१॥ महिषीसुखगर्भगतः शुशुभे, सरसीतमराल इवाऽद्रितटे। सुरसाल इवोत्तमशुक्तिपुटेऽक्षतमौक्तिकवत् शुशुभे तविषे ।।२।। धरणीरमणी नृपतेर्महिषी, तनये सनये परिवृद्धिमिते। गरभे ववृधे धन-सस्यगणैः, परिमुच्य विरोधमुक्तिभवम् ।।३।। दिवसे दिवसे स्ववशं नयते, क्षितिमण्डलमत्तगजाश्व-रथैः । नृपचक्रमवक्रगतिः स्म नयी, सदयः सदयः सदयः सदयः॥४॥ हृदये हितवृत्तिरतं वचनेऽहतिरुत्तमपाणिपुटे सुघटे। नृपतेरिह भूवलये सुयशो, रमते रमते रमते रमते ।।५।। तरणावथ मेषमिते सवृषे, भपतौ च कुजे मकरं मिलिते। शशिजेऽत्र कनीं परिभुक्तवति, धिषणे शुभकर्कपथं प्रथिते ।।६।। पृथुरोमरते किल दैत्यगुरौ, रविजे च तुलापरिभोगमिते। समये परिपूर्णनिशीथकले, परिवर्धितपुण्यमनोरथके ।।७।। सकले सकलेऽपि समृद्धिमिते, सति राजकुले विपुले महिषी। असिते च सहस्यदिने दशमी, शुभनाम्नि सती सुषुवे तनयम् ॥८॥ पशु-नारक-पञ्चजना निमिषा, हृदयोत्थमलं सुखमापुरमी। भुवनं मुमुदे धन-धान्य-सुत-प्रकरोत्तमबन्धुरबन्धुजनम् ।।९।। समदं रतिकेलिपरं विहगं, कृतकोककुलप्रमदप्रकरः। दिततामसलोकविचारपथः, पथिकप्रथितागमकर्मकलः ॥१०॥ विदधजिनपार्श्वमुखं विमुखं, भवतः किमु तक्षितुमस्तमलम्। दिनकृत्वमिति स्वकमर्थयुतं, कथयन्नभिधानमहीनरुचिः ।।११।। कमलौघमलं सुपरागकलं, सलिलं च विसारकुलं सकलम् । गतनिद्रविकाशमुखं विदधत्, परितोषसुपोषवनं सघनम् ॥१२॥