________________
भूपाश्वसेन इति रूढिवशाद् बभूव
नाऽर्वथमर्थपरिवारविराजमानम् ।।९।। भूतानि पञ्च जलदो रवि-सोम-भौमाः
सौम्यो गुरुः कवि-शनी शिखि-सैंहिकेयौ। सर्वेऽपि राजति नृपे समतामवापु
राधिक्यहीनमपहाय गतेर्गुणानाम् ॥१०॥ वैरं कुमार्गगमनं धननाथ ईति
वर्षात्ययः कुमतिरतिरनीतिबन्धः । मारिर्वियोग-कलहौ विविधाश्च रोगा
स्तस्मिन् नृपे जगति शासति नाशमीयुः ।।११।। पुत्री धनी वितरणी प्रशमी गुणी ही
धर्मी प्रसन्नहृदयी सुनयी विवेकी। तीर्थी परार्थविजयी सुमती जयी च
लोकोऽस्ति शासति नृपे न च नञ्समासः ।।१२।। हिंसा हृषीकमनसो रसतो व्यलीकं
चौर्यं सदा परगुणस्य परिग्रहोऽपि। मिथ्यामतेरहरहः परिखण्डनं च
राज्यं प्रशासति नृपे सकृपे विदर्प ।।१३।। आजन्मतः सुमति-सद्गतिभागधेय -
लावण्यरूपघटना च कलाकलापः। तस्या विधूततमसोऽजनि वृद्धिमासीद्
वामेति नाम महिषी सुमुखी नृपस्य ।।१४।। आजन्मतोऽपि तनुवाग् हृदयेषु यस्याः
साहाय्यमाप्य वसति स्म सुखं गुणानाम् । शीलं सलीलमतुलश्रि ततः प्रभुत्वं
लेभे स्वशक्तिवशतः सकलेषु तेषु ।।१५।।
इति श्रीसहजकीर्तियतीन्द्रविरचिते श्रीफलवर्द्धिपार्श्वनाथमाहात्म्ये महाकाव्ये
देश-नगरी-भूप-राज्ञीवर्णनस्वरूपो द्वितीयः सर्गः ।।