SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ भूपाश्वसेन इति रूढिवशाद् बभूव नाऽर्वथमर्थपरिवारविराजमानम् ।।९।। भूतानि पञ्च जलदो रवि-सोम-भौमाः सौम्यो गुरुः कवि-शनी शिखि-सैंहिकेयौ। सर्वेऽपि राजति नृपे समतामवापु राधिक्यहीनमपहाय गतेर्गुणानाम् ॥१०॥ वैरं कुमार्गगमनं धननाथ ईति वर्षात्ययः कुमतिरतिरनीतिबन्धः । मारिर्वियोग-कलहौ विविधाश्च रोगा स्तस्मिन् नृपे जगति शासति नाशमीयुः ।।११।। पुत्री धनी वितरणी प्रशमी गुणी ही धर्मी प्रसन्नहृदयी सुनयी विवेकी। तीर्थी परार्थविजयी सुमती जयी च लोकोऽस्ति शासति नृपे न च नञ्समासः ।।१२।। हिंसा हृषीकमनसो रसतो व्यलीकं चौर्यं सदा परगुणस्य परिग्रहोऽपि। मिथ्यामतेरहरहः परिखण्डनं च राज्यं प्रशासति नृपे सकृपे विदर्प ।।१३।। आजन्मतः सुमति-सद्गतिभागधेय - लावण्यरूपघटना च कलाकलापः। तस्या विधूततमसोऽजनि वृद्धिमासीद् वामेति नाम महिषी सुमुखी नृपस्य ।।१४।। आजन्मतोऽपि तनुवाग् हृदयेषु यस्याः साहाय्यमाप्य वसति स्म सुखं गुणानाम् । शीलं सलीलमतुलश्रि ततः प्रभुत्वं लेभे स्वशक्तिवशतः सकलेषु तेषु ।।१५।। इति श्रीसहजकीर्तियतीन्द्रविरचिते श्रीफलवर्द्धिपार्श्वनाथमाहात्म्ये महाकाव्ये देश-नगरी-भूप-राज्ञीवर्णनस्वरूपो द्वितीयः सर्गः ।।
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy