________________
एवं विमृश्य जिननायक ! तावकीनं
स्वस्मै हिताय विदितं चरितं करिष्ये । वाणिज्यमत्र वणिगेव यथैक्ष्य लाभं
किं किं जनो हितपरो न हितं करोति ? ।।२।। जैनं चरित्रमिदमस्ति विचिन्त्य पूतं
श्रोतव्यमत्र विदुषां ननु नो शठोक्तम् । काचस्य खण्डमिव काञ्चनमध्यमग्नं
__ ग्राह्यं भवेत् सुमनसां तदभेदबुद्ध्या ।।३।। ये दुर्धियो विपुलमत्सरिणोऽगुणज्ञा
स्त्यक्ष्यन्ति काञ्चनमपि ते व्यतिरेकबुद्ध्या। अन्नं सुतृप्तिजनकं लवणैकदेशं
मन्दास्त्यजन्ति सुधियः पुनराद्रियन्ते ।।४।। कासीति देश इह भारतवर्षमध्ये
गङ्गासरित् प्रतिदिनं यमसौ सिषेवे। मन्ये समृद्ध इति भावमुपागतेयं ।
तुष्टः परं किमपि मे परिदास्यतीति ।।५।। वाराणसीति नगरी न गरीयसीति
यस्माज्जडं वहति नो सुधियो नरांश्च । अस्या विचिन्त्य परितः परिवेष्ट्य सेवां
गङ्गा करोति सततं परिनिर्जितेव ।।६।। यद्वा महापुरुषयोनिरियं सदैव
प्रेक्ष्या मया सुकृतदा जलदेन काले। धौतक्रमाक्रमजलेन पवित्रिताङ्गी
यद्वा गतेन मयि तां भविताऽस्मि सेवे ।।७।। अस्यास्तु सङ्गममहं सुतरमवाप्य
विश्वत्रयी सवनमाननपूजनाभिः । जाता प्रसिद्धिमतुलां किल तीर्थभूतां
सत्सङ्गमो भवति सत्फलदो हि नित्यम् ॥८॥ अश्वा रथाः करटिनो बहुपत्तयश्च
राजन्ति यस्य निलयेष्वथ नामधेयम् ।