________________
राजन्ते किमसौ विभिन्नफलदा जाता न चित्रं प्रभो !
यद्वा भूमिगता विचित्रफलदा तोयावली मेघजा ।।६।। दादेति स्वधनं क्रियां सुविशदां यश्चर्करीति क्षितौ ।
वावक्ति प्रवरं वचः परधनं तो जर्गृहीति प्रियम् । पारक्यां न च वावशीति ललनां मूछौँ विदाधेति नो
द्रव्ये स्वेऽपि न बोभुजीति निशि यस्त्यक्ताभिलाषः सृतौ ।।७।। वामेयस्तुतिमन्तरेण स जनः स्वार्थं न पूर्ण स्वकं
___सासाधीति सुभिक्षमत्रि विपुलं वर्षां विना सत्स्वपि। पृथ्व्यां भूरिजलाशयेषु वचने काये तथा मानसे ।
___ ज्ञात्वैवं फलमुत्तमं स्तुतिविधौ जातोद्यमः साम्प्रतम् ।।८।युग्मम्।। स्वर्गो या परिरंरमीति विवरेऽप्याजङ्गमीति स्वतो
लोकेऽमुत्र सरीसरीति न कदा कुत्रापि जार्गृद्धि या। आनन्दं वितरीतरीति जगतो लालब्धि कीर्तिं परां . किं किं नाथ ! तव स्तुतेस्तनुधिया सद्वर्णनं वर्ण्यते ।।९।। एतां प्राप्य जनो वृथा धनकृते देशान्तरं भ्राम्यति
____ कलाम्यत्यत्र कथं तनूद्भवकृते ताम्यत्यहो ! स्त्रीकृते । सर्वं यच्छति कामितार्थमचिरादेषा समासेविता
लोके कल्पलतेव सत्यवचनं जानीत भो ! मामकम् ॥१०॥ इति श्रीसहजकीर्तियतीन्द्रविरचिते श्रीफलवर्द्धिपार्श्वनाथमाहात्म्ये महकाव्ये
स्तुतिफलाविर्भावकः प्रथमः सर्गः ।।
देश-नगरी-भूप-राज्ञीवर्णनस्वरूपः
__ द्वितीयः सर्गः नामस्तुतिश्रवणमेव करोति सौख्यं
___पापं क्षणोति चरितस्य कृतिस्तु दूरे। पीतिर्जलस्य तृषितस्य यथा जिनेश -
स्थाने जलस्रवणमेव समाधिहेतुः ।।१।।