________________
महतः क्रीडाशैलात्, निपतितनिर्झरजलानि जातानि । चन्दन - घुसृणविमिश्राण्यहरन् शोभां च दधि-मधुनोः ||३८|| लीलागिरेः प्रधानात्, निर्मलसलिलानि भान्ति सरितायाः । अप्रतिहतशक्तेरिव, विजयपताका अनङ्गस्य ॥३९॥ रत्यधिपतिना प्रभुणा, प्रबलेन हि तदाऽतितरुणमिथुनानाम् । दधिना दधीव मधुना, मधु किं मनसा मनो मिलितम् ॥४०॥ अतिशीतलानि कुल्याम्बूनि प्रवहन्ति पश्य विमलानि । इति निगदन्त्यो महिला जलकेलिमहोत्सवे लग्नाः ||४१ || सलिलहता निपतन्ती, सलिले मुक्ताकलापमुक्ता अपि । विगणय्य जले ब्रुडिता, काऽपि मृगाक्षी हसन्नेत्रा ॥४२॥ प्रेक्षस्व मृदूस्तन्वीर्विहरन्तीः सलिलान्तरेषु लीलायाः । रम्याया विविधायाः, स्थानं देवाङ्गनासदृशीः || ४३॥ प्रेक्षस्व जललहर्यामायान्त्यां समुत्पतत्पतित्र्यां च । खेलन्ति मध्यलुलिताः, शफरायितसञ्चलत्केशाः ||४४|| पातालकन्यकायाः, सुरवध्वा यक्ष- किंपुरुषवध्वाः । अतिरूपा अपि दयिता, इत्थं भणिता जनैस्तरुणैः ॥४५॥ देवाङ्गनासमक्षं, कोऽप्याकाशेऽभिरूपललनायाः । अनुकूलं क्रीडन्त्या लब्ध्वा गण्डूषमुद्भुषितः ॥४६॥ क्रीडन्त्या कुत्सितया, मलिनहृदयया कयाऽप्यनया । अनभिज्ञयाऽपि रमसे, काऽपि जघान प्रियं सलिलैः ॥४७॥ अकृत्रिम - कमनीया, मुग्धाश्चतुरा विदग्धप्रणयिन्यः । तत्तत्तरुणीमध्ये, झगिति प्रवृत्ताः सलिलकेलौ ॥४८॥ कासामञ्जनशोभा, जलकल्लोलैर्न तत्र गलिताऽभूत् ? । ताः प्राप्ता नयनश्रीं, काङ्क्षति निपुणोऽपि यां कामम् ॥४९॥ घनकदलीच्छायायां, गौर्यो हारिद्रगौरवर्णाभिः ।
वनिता रताः सदम्भसि, बान्धव्यं च मिथो दधत्यः ||५०||
नीरस ! सन्तर परिखां, किं न लपस्यथवा न देहि प्रतिवाक्यम् ? । नैषि पते ! मा याहीत्येवं काचिद् बभाण जलमध्ये ॥ ५१ ॥
६३