SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ कथा रत्नावलिः -डो. रामकिशोर मिश्रः उत्तरप्रदेशे एटाजनपदे शूकरक्षेत्रे सोरोंनगरसमीपे बदरिकायां ग्रहयज्ञबाणचन्द्राङ्कित(१५५९)वैक्रमाब्दे दीनबन्धुपाठकगृहे रत्नावलिर्जन्म लेभे । यदा सा यौवनारूढाऽभूत्, तदा सा परमसुन्दरी बभूव । लोकवसुशरेशयुते(१५८३) वैक्रमवर्षे ज्येष्ठशुक्लत्रयोदश्यां सोरोंनिवासिना तुलसीदासेन सह तस्याः परिणयः समपद्यत । तस्या रूपलावण्यमवलोक्य तुलसीदासमनश्चञ्चलमभवत् । शयने, जागरणे, उत्थानासनयोः, भक्षणे जलपाने च सर्वविधावस्थायां तेन रत्नावलिरदृश्यत । तां विना तस्य किमपि कार्यं न भवति स्म । तुलसीदासस्य जन्म सोरोंनगरे युगयज्ञबाणभू(१५५४) विक्रमवत्सरे श्रावणशुक्लसप्तम्याम् आत्मरामद्विवेदिगृहे हुलसीगर्भाद् बभूव । अभुक्तमूलनक्षत्रे जन्मत्वादस्य मातापितरौ हुलसी तथाऽऽत्मरामद्विवेदी दिवंगतौ । पितुर्गुरुर्नरहरिरस्य पालन पोषणं च चकार । तुलस्यां जलदानेनाऽस्य तुलसीदासनाम कृतम् । भूरसव्रतेश(१५६१) विक्रमाब्देऽस्य यज्ञोपवीतसंस्कारः सम्पन्नः । एकोनत्रिंशवर्षावस्थायामस्य रत्नावल्या सह विवाहोऽभवत् । पत्न्याः प्रेमजाले पतित्वाऽनेन सर्वं विस्मृतम् । 'रत्ने ! किं करोषि ? प्रिये ! मम पार्श्वमागच्छ' इति ब्रुवाणो भ्रमर इव तां परितः स भ्रमति स्म । एकस्मिन्दिने रत्नावलिं तस्याः सहोदरो बदरिकां निनाय । पत्न्या अभावे स स्वगृहे स्थातुं न शशाक । स सायं बदरिकां गन्तुं गङ्गातटं प्राप । तत्र पारं गन्तुं न काऽपि नौकाऽऽसीत् । तदा प्रवहन्तं शवं दृष्ट्वा पारं गन्तुं तं शवं नौकां विज्ञाय तत्रोपविश्य स पारं जगाम । बदरिकां गत्वा श्वशुरालयस्य द्वारं कपाटावृतमवलोक्य भित्तौ सर्प रज्जु ज्ञात्वा तस्याऽऽश्रयेणाऽट्टालिकां स आरूढवान् । ततः स रत्नावलिपार्वं गत्वा 'प्रिये ! त्वां विनाऽहं गृहे स्थातुं समर्थो नाऽभवम् । त्वं मे प्राणाः । त्वां विना मे जीवनं व्यर्थम्' इति तां कथयामास । ततस्तं सा प्रोवाच - प्रियतम ! गृहद्वारमावृतकपाटमासीत्परं त्वमट्टालिकां कथमारूढवान् ? तुलसीदासः प्रियतमे ! त्वया भित्तौ रज्जुर्लम्बिता, यस्या आश्रयेणाऽहमत्राऽऽगमम् । किं त्वं लम्बितरज्जुं व्यस्मरः ?
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy