________________
" न भ्रातः ! न" । नाविकोऽवदत् "अहं दश रूप्यकाणि यावद् गणयितुं शक्नोमि । तदधिकरूप्यकाणि गणयितुं न शक्नोमि, तस्याऽऽवश्यकताऽपि नाऽस्ति मज्जीवने" ।
एवं श्रुत्वा तृतीयः सुहृदुक्तवान् - "खेदस्य वार्ता, मित्र ! अतिखेदस्य वार्ता । विशिष्टं मानवजन्म प्राप्याऽपि त्वया सर्वथा मूढत्वमेवाप्तम्" ।
नाविकेन सर्वमिदं श्रूयते स्म तदाऽकस्माद् झंझावातः समागत: । नद्यां च जलवृद्धिरभूत् । नद्या जलं नौकां प्रविष्टुं प्रारभत । तदा नाविकेन त्रीणि मित्राणि प्रोक्तानि - " महानुभावा: ! यूयं तरणक्रियां जानीथ न वा ?"
अकस्मात् प्रारब्धेन झंझावातेनाऽतिभीतास्त्रयोऽपि सुहृदो युगपत् प्रत्युक्तवन्त: जानीमः" ।
-
४३
"न, वयं तरणं न
नाविकः खेदमाविष्कृतवान् मार्मिकमुक्तवांश्च - "रे ! महानुभावाः ! यदा यूयं प्रवासं जलमध्ये कुरुथ, तदा युष्माकं व्यावहारिकी बुद्धिमत्ता नोपकारिणी भवेत् । तदा तु युष्माकं तरणकौशलमेव सहायकं भवेत् । यूयं तन्न जानीथ, अहं जानामि । अतोऽधुना युष्माकं पूर्णं जीवनं वास्तविकमेव जलान्तर्गतं भविष्यति । यतः साम्प्रतं स्तोकसमयेनाऽनेन महाझंझावातेनेयं नौका भग्ना भविष्यति, वयं सर्वे च पतिष्यामः स्रोतस्विन्याम् । तदाऽहं तु तरिष्यामि स्वं च रक्षिष्यामि । परं युष्माकं सर्वेषां किं भविष्यति ??"
नौचरस्य मार्मिकप्रश्नेन त्रयोऽपि युवानः 'अस्माकं किं भविष्यति' इति विचारभीता मूढाः सञ्जाताः ।
कथेयमस्मभ्यं सर्वेभ्यो मननीयं बोधं प्रदत्ते - "वयं स्वजीवने कदाचिद् विद्वन्मूर्धन्या भवेम, कदाचित् कलाविदो भवेम, कदाचिद् विशिष्टज्ञानवन्तो विशिष्टशक्तिमन्तो वा भवेम, तथाऽपि यदि भवसमुद्रतरणज्ञानेन तदनुरूपाचरणेन हीना भवेम तर्हि नूनमवगन्तव्यं यदस्माकमिदं महार्घ्यं - बहुपुण्यराशिविनियोगेन प्राप्तं मानवजीवनं जलमध्ये गतमिव निष्फलमेव भविष्यति । यतो न व्यावहारिकज्ञानं, अपि तु भवार्णवतरणकलाज्ञानं तदनुरूपं चाऽऽचरणमेव जीवनसाफल्यमिति ।