SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रियतम ! मया भित्तौ रज्जुर्लम्बिता क्व ? आगच्छ, चल प्रिये ! तां रज्जुं दर्शयामि । रत्नावलिः तुलसीदास : रत्नावलिः अत्र रज्जुः क्व ? सर्पोऽयं प्रियतम ! पश्य । तुलसीदासः प्रिये ! तव प्रेमबलात् सर्पो मया रज्जुर्ज्ञाता । रत्नावलिः प्रिय ! त्वमसि प्रेमान्धो गङ्गापारमागच्छः कथम् ? तुलसीदासः प्रिये ! गङ्गातटे नौकाऽऽसीत्, यया पारमागमम् । रत्नावलिः चल प्रिय ! तामपि दर्शय । तुलसीदासः चल प्रिये ! दर्शयामि । रत्नावलिः अत्र शवोऽयम्, नौका क्व ? पश्य प्रियतम ! दर्शय । तुलसीदासः प्रिये ! तव प्रेमबलादहं शवं नावं ज्ञातवान् । अहं ते प्रेमपिपासुः । त्वं प्रेमरसं पायय, येन मे प्रेमतृषा शान्ता भवेत् । रत्नावलिः प्रियतम ! त्वं मे प्रेमान्धोऽसि । त्वां धिक् । भगवत्प्रेमान्धो भव, येन ते कल्याणं स्यात् । गच्छ, भगवन्तं रामं भज । तुलसीदासः अस्तु प्रिये ! गच्छामि । त्वयाऽहं धिक्कृतः । प्रेमान्धः कथितः । अधुना वनं गच्छामि । तव पार्श्वं नाऽऽयास्यामि । त्वं मम नाम विस्मर । अथ रामं भजिष्यामि । यामि । ततस्तुलसीदासो बदरिकातो गृहं न गत्वा वनं गतः । रामं भजन् स वनं वनं भ्रमति स्म । साधुवेषं गृहीत्वा सोऽयोध्यां गतः । तत्र स कवित्वशक्तिं प्राप्तवान् । भूकालरसेश (१६३१) विक्रमाब्दे चैत्रे शुक्लपक्षे रामनवम्यां स रामचरितमानसं लिखितुमारभत । तत: कालाग्निरसेश (१६३३)विक्रमवर्षे मार्गशीर्षे शुक्लपक्षे स रचनामपूरयत् । तदनन्तरं प्रयागे संगमतीरे, काश्यां विश्वनाथमन्दिरे, चित्रकूटे च तेन श्रीरामभक्तमध्ये रामचरितं श्रावितम् । बदरिकातो रत्नावलिः सोरोंनगरे गृहमागता । तत्र स्वपतिं तुलसीदासं न दृष्ट्वा रुरोद । तया तं धिक्कृत्य, प्रेम न कृतम्, येन तद्विरागोऽभवत् । तुलसीदासं श्रीरामभक्तं विधातुं रत्नावलिः प्रेरिकाऽऽसीत् । सा पतिविरहे दु:खिजीवनं यापितवती । रत्नावले ! त्वं धन्याऽसि, त्वया पतिः कविः कृतः । रामकिशोर मिश्रेण रत्नावलि - कथा कृता ॥ २९५/१४ पट्टीरामपुरम्, खेरुडा (बागपत) उ.प्र. 250101 दूरभाषाङ्का: 012-12233527 ४५
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy