SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कथनानुसारेण व्यवहरन्ति एते । कदाऽहं पापमयं संसारं विहायाऽऽत्मकल्याणमार्गेण गमिष्यामि – इति भावनायामेव कालं गमयन्ति । एतेषां जीवानां संसारसुखे नैवाऽऽसक्तिः, केवलं कर्तव्यरूपेणैव संसारेऽस्मिन् एते जीवाः स्थिताः सन्ति । यथा भरतचक्रवर्तिना नित्यं संसारसुखं भुक्तं, सर्वमपि सुखं तदधीनमासीत्, किन्तु तेन चक्रवर्तिना यत् यत् कार्यं कृतं तत्सर्वमपि जागृतिपूर्वकं विहितम्, आत्मानं केन्द्रीकृत्यैव कृतं, तत एव संसारे वसताऽपि तेन केवलज्ञानं प्राप्तम् । एकेन विदुषा कथितम् - उपभोगो न पापं, किन्तु उपभोगस्याऽत्यासक्तिः पापमुच्यते । एनया आसक्त्या एव युद्धमुत्पद्यते व्याधयो विसङ्गतयश्च वर्धन्ते । द्वितीयो भेदो मध्यमजनस्याऽस्ति । एतेषां जीवानां चित्तेऽहर्निशं - अहमेतादृशः, मयैतत् कृतं, यद्यहं न भवेयं तर्ह्येतत् कार्यं न सफलीभवेत् । वाणिज्यं गृहं, संघः, परिवारश्चेत्यादिकं सर्वमपि मया विना न संभवेत्, इति भावः प्रवर्तते । अद्य समस्तोऽपि संसारो लिङ्गत्रये वर्तते । यथा मम पिता पुत्रश्च, मम पत्नी: जननी च इदं गृहं धनं च ममेति लिङ्गत्रयेण मोहाधीनो जीवो व्यवहरति । एतादृशो जीव: सर्वदा कर्तृत्वेन व्यक्तित्वेन च परिवेष्टितो भवति । एष जीवः प्रतिक्षणं रागी, द्वेषी, प्रसन्नः, उद्विग्नः, क्रुद्धः शान्तः सुखी दुःखी च भवति । एवं यस्य चित्ते मोहचिन्ता स्यात् स मध्यमजन उच्यते । तृतीयो भेदोऽधमजनस्याऽस्ति । एतेषामधमजनानां मनसि निरन्तरं विषयसुखस्याऽभिलाषा विद्यते । ते क्षणमपि विषयसुखं विना स्थातुं न शक्नुवन्ति । एते जना नित्यं कोमलं मृदु स्निग्धं च स्पर्शम्, स्वादु मिष्टान्नं च भोजनम्, मनःप्रसन्नकरं शुभं गन्धम्, सुन्दरं रूपम् मधुरमारावं चेच्छन्ति । प्रतिकूलो विषयो यदि प्राप्येत तर्हि एते जीवा उद्विग्नाः क्रुद्धाश्च भवन्ति । बन्धो ! यद्येकैकविषयमाश्रित्य रक्तानामस्मादृशानां जीवानां किं भवेत् ? श्रीउमास्वातिवाचकेन कथितम् - एकैकविषयसङ्गाद् रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा जीव: पञ्चेन्द्रियवशार्त्तः ॥ ( प्रशमरतिप्रकरणम्) श्रीकृष्णभगवता गीतायां कथितम् ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गाज्जायते कामः कामात् क्रोधोऽभिजायते ॥ क्रोधाद् भवति संमोहः संमोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥ एवं कामचिन्ताक्रान्तो जीवोऽधमजनः कथ्यते । - - भिन्न-भिन्नप्राणिनो मरणमाप्नुयुः तर्हि विषयपञ्चके २८
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy