SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ चतुर्थो भेदोऽस्ति अधमाधमस्य । ये केचिज्जना नित्यमन्येषां चिन्तायामेव रक्ता भवन्ति । मम किं भवेत् ? मया किं कृतम् ? मया किं करणीयम् ? दुर्लभं परमधर्ममवाप्याऽपि मयाऽद्यावधि बहूनि पापान्याचरितानि इति स्वचिन्तां नैते जनाः कुर्वन्ति । एते तु तेनैवं कृतम्, एतेनैवमुक्तम्, तेन धनार्थं गृहे क्लेशः कृत:, तेन धनार्थं भ्राता हतः, तस्य पुत्र उन्मार्गे गतवान्, तस्य पत्नी विनष्टा चेत्येवं सदा चिन्तयन्ति । - चेतन ! अन्येषां चिन्ता निन्दा च क्षुद्रता कथ्यते । क्षुद्रतावशो जीवस्तु भवाभिनन्दी कथ्यते । एतादृशो जीवो मिथ्यात्वी प्रोच्यते । अत्र परदुःखविनाशस्य चिन्ता न क्षुद्रता, सा तु कल्याणकरी भवति, इति ज्ञेयम् । केचिज्जीवास्तु प्रात:काले उत्थाय समाचारपत्रिकां गृहीत्वाऽऽदौ मरणसमाचारपृष्ठं पठन्ति । तत: स्नेहिजनेभ्य एनं समाचारं कथयन्ति एते जनाः । तत्पश्चात् मयाऽत्र गन्तव्यमिति विचार्य स्वकीयं सर्वकार्यं शीघ्रं पूर्णीकुर्वन्ति । एते जना एव प्रातर्भगवत्स्मरणं, प्रभुपूजा, गुरुवन्दनं, गुरुभक्तिश्चेत्यादिकानि शुभकार्याणि न कुर्वन्ति, यतस्तदर्थं समयो नाऽस्ति । एतादृशा जनाः स्वकीयं प्रातःकालं तु मलिनं कुर्वन्त्येव, किन्तु परेषामपि प्रभातमशुभं कुर्वन्ति । तादृशा जीवा अधमाधमाः कथ्यन्ते । बन्धो ! न कोऽपि जन्मत एतादृशो भवति । किन्तु, स्वभावेन व्यवहारेण च विविधभेदा भवन्ति । एष श्रेष्ठकुले जातस्तत उत्तमोऽस्ति, निम्नकुले जातस्ततोऽधमोऽस्ति, एतन्नोचितम् । यतः कर्मवशेन जीवस्तत्तत्कुले जन्म प्राप्नोति । एवं मानवानां विविधभेदा भवन्ति । अन्ते, सद्विचारेण, सत्कार्येण, सद्व्यवहारेण च त्वमवाप्तं दुर्लभं जिनशासनयुतमानवभवं सफलीकुरु इत्याशासे । २९
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy