________________
सर्वकर्मसाधकम् ॥
डो. वासुदेवः वि. पाठकः 'वागर्थ'
शास्त्रधर्मपालनं राष्ट्रधर्मपालनम् भद्रभाववर्धकं सर्वकर्मसाधकम् ।।...
शास्त्रधर्मपालने सुज्ञता समन्विता, सत्यधर्मशासने भारतीयता मता; शास्त्रधर्मं वरं सर्वलोकसौख्यदम् भद्रभाववर्धकं सर्वकर्मसाधकम् ॥...
संवादं संगति साधयित्वा वराम् कामयामहे सदैव कर्मनिष्ठां पराम्; भावयामहे सदैव मानवान्परस्परम् भद्रभाववर्धकं सर्वकर्मसाधकम् ।।...
केवलं न भौतिकं पारमार्थिकं परम् धर्मकर्मसेवने नैवाऽस्ति दुःखदम्; ऋषिवरैश्च मुनिवरैः एवमेव दर्शितम् भद्रभाववर्धकं सर्वकर्मसाधकम् ।...
३५४, सरस्वतीनगर, अहमदाबाद-१५
Ph. : 079 26745754