________________
हाईकु - अष्टकम्
(१) दीपितो दीप:
अत्र मन्दिरे; यदा
ध्वान्तं मनसि ॥
(३) मिथ्यैवाऽऽभाति
मार्जनं दर्पणस्य; कलङ्कं मुखे ॥
(५) कथं मानव: ?
चीटिकाऽपि नाऽऽगच्छेत् माधुर्यं विना ॥
(७) वात्सल्यं यस्याः
स्वल्पमपि न्यूनं न, साऽस्माकं माता ॥
२१
डॉ. वासुदेव: वि. पाठकः 'वागर्थ'
(२) अस्त्यन्धकारः, पत्र- पठनार्थं ते
कुरु प्रकाशम् ॥
(४) मन्दं गरलम् पीयते प्रतिपलम्; मनसस्तापे ॥
(६) पीतममृतम्
प्रीत्यास्तु प्रतिपलम् मनस्संतृप्तम् ॥
(८) स्व-संघर्षेऽपि
परान्प्रोज्ज्वलयन्ति फेनकं सन्तः
३५४, सरस्वतीनगर, अहमदाबाद- १५ Ph.: 079 26745754