________________
पिहू-पिहू न्विति जल्पसि प्रतिकाननमुन्मत्त । मामवलोक्य न लज्जसे चातक ! कथं त्वमत्र ? ॥९॥ अधरोत्तरमवलोकते को नु वसन्तबलेन । देवरतां यातोऽधुना पितामहोऽपि सुखेन ॥१०॥ अञ्जलिजलपानक्रमैः सरश्शनैः क्षयमेति । तदपि निदाघपुरस्सरे मधौ यशस्समुदेति ॥११॥ रसिको नवश्छविल्ल इव किंशुकतरुर्विभाति । प्राची पवनझरी न किं शठनायिकेव वाति ॥१२॥ समुपगते ऋतुवल्लभे कुसुमकोटिनिवहेन । विन्ध्यदरी श्रीमण्डिताऽऽख्यातुं शक्या केन ? ॥१३॥ अभवन् काकानां कृते ननु पिचुमन्दफलानि । माकन्दप्रचुरेऽप्यहो मधौ सरसमधुराणि ॥१४॥ प्रतिवेशिनि ! गच्छाम्यहम् अलमन्यथा विभाव्य । धेनुरियं परिचुम्बिता दुर्ललिता सम्भाव्य ॥१५॥ हरितश्शुकोऽसितः पिको वनं वर्णशतगामि ।
आयाते नु वसन्तके रक्ताऽहं प्रभवामि ॥१६॥ धिक्त्वामयि नवमल्लिके ! भवसि सपत्नी हन्त । प्रोषितपतिकां मामहो त्वमपि निहंसि वसन्त ॥१७॥ जाङ्गलिको ग्रामे स्थितो जननि ! तमीक्षितुमेमि । दृष्ट्वा नाऽऽयास्यसि सुते ! स्वयमथवाऽहमुपैमि ॥१८॥ शीतलपवनझरी कथं शनैः कदुष्णा भाति ? ज्ञातं साम्प्रतमेधते ग्रीष्मों मधुरपयाति ॥१९॥ दयिते ! त्वं न पृथग्वससि परितो मामसि हन्त ! कथमिति चेद् वक्ष्याम्यहं त्वमपि शृणुष्व वसन्त ! ॥२०॥ भ्रूभङ्गी सरितां जले, विधौ मुखं पश्यामि । ननु मयूरपिच्छे प्रिये ! कबरी तेऽनुभवामि ॥२१॥ हंसगतौ ते पदगति, वचनं पिकविरुतेषु । स्मितकं बाले ! भावये भिन्नेऽहनि जलजेषु ॥२२॥
१३