________________
दोधकशतकम् *
१. वसन्तदोधकानि
कुहू कुहूरवमारटति पुंस्कोकिलोऽद्य हन्त । ज्ञातं, साधु विराजसे लोकेऽधुना वसन्त ! ॥१॥ निशि मरन्दरसवर्षणं दृष्ट्वा माकन्देषु । त्यजति को न याच्ञामहो जलदागमजलदेषु ॥२॥ मञ्जर्यः प्रतिपल्लवं सहकारस्य विभान्ति । अगुरुतिलकरचनप्रभास्तासु मधुकरा यान्ति ||३|| प्रतिशाखं निष्पत्रताम् ऋतुविभवेऽपि विभाव्य । हन्त मधूको विलपितः कुसुमदृगम्बु निपात्य ॥४॥ सिन्धुकरे गिरिपत्रकं सरिता दत्तं येन । ज्वलति पलाशवनावली विज्ञातं ननु तेन ॥५॥ गाम्भीर्यं सिन्धोरो गलितं वीचीभूय । कान्त ! कथं कुलिशायसे मधुमासेऽप्यवधूय ॥६॥ तनुलतिका यौवनसुमा मनसिजगन्धा हन्त । प्रोषितवल्लभमधुकरं द्रुतमुपगमय वसन्त ॥७॥ कृशा कृशेत्यनिशं रुषा वश्रर्मामवलोक्य । वदति मृषा न ममौषधं प्रियमानयति विशोध्य ॥८॥
डो. अभिराजराजेन्द्रमिश्रः
* यद्यपि संस्कृतदोधकशब्दस्यैव तद्भवरूपं हिन्दीभाषाया दोहा इति । तथापि उभयोः भाषयोः पृथक् स्वरूपं लक्षणञ्चाऽनयोः । विद्वांसोऽत्र प्रमाणम् ।
१२