________________
२. अनुभवपञ्चाशिका सद्वचनं वदने प्रभो ! स्याच्च नयनयोरि । हृदि कण्ठे विलसेन्नु मे सत्यं जगदनुसारि ॥१॥ स्वसुखं नाऽहं कामये, यशसा नाऽपि धनेन । . परमेश्वर ! जीवनमिदं व्येतु विपन्नहितेन ॥२॥ - सङ्कलय्य पापं त्वया कृतं किन्नु वैधेय !? हस्तागतमपि मोषितं रत्नं परमतिनेय !! ॥३॥ क्षणिकमिदं सुखवैभवं को न साधु जानाति ? प्राप्तं भ्रष्टं वा कदा कः सम्प्रत्याख्याति ? ॥४॥ रामो दाशरथिर्गतो यथाकालमिह हन्त ! आत्मानं लक्षायुषं मनुषे तदपि दुरन्त ! ॥५॥ कखगघेतिचतुरक्षरं यथा तथाऽप्यभ्यस्य । क्षेत्रपुरुष इव वल्गसे त्वं पण्डितः स्ववश्य ! ॥६॥ कः कौ के सुहृदस्तव सत्यं त्वं जानासि ? जीवसि वा भ्रान्तस्सखे ! लोकसरणिमनुमासि ॥७॥ ये कुलजास्ते शत्रवः परे च ते मित्राणि । येऽरण्ये जाता द्रुमास्तेऽभूवन् भवनानि ॥८॥ अश्रु मौक्तिकं नयनयो त्वा कृतोऽस्मि देव ! धनकुबेर इह भूतले, मन्ये सुबहु तदेव ॥९॥ ननु ममाऽङ्गणे शारदा हंसावृतोऽस्मि तेन । लक्ष्मीस्तव गेहे ततः परिगतोऽस्युलूकेन ॥१०॥ बहु मन्ये दारिद्य्कं नेच्छाऽङ्कुरिता येन । स्वप्ना दृष्टाः केवलं पूर्या नियतिबलेन ॥११॥ जहि जहीति धीर्मे भणति चित्तं भणति गृहाण । जहि-गृहाण समुचितमिति प्रसभं कोऽपि बभाण ॥१२॥ जीवनमिह संशोधनैः संस्क्रियेत यदि हन्त । वने मधुप इव हसिष्यसि बन्धो ! त्वमपि वसन्त ! ॥१३॥