________________
श्रीशङ्खेश्वरपार्श्वनाथ- स्तुत्यष्टकम्
(छन्दः इन्द्रवज्रा )
ॐकारयुक्तं मुनिवृन्दवन्द्यं, देवेन्द्रपूज्यं नरनाथसेव्यम् । नीलोत्पलाभं सुमनोनतं च शङ्खशपार्श्वाधिपतिं स्तुवे तम् ॥१॥ त्वं वीतरागोऽसि निरञ्जनोऽसि, सिद्धोऽसि बुद्धोऽसि निरामयोऽसि । वन्द्योऽसि पूज्योऽसि महेश्वरोऽसि, शङ्खशपार्श्वाधिपतिं स्तुवेतम् ॥२॥ यत्स्नात्रतोयामृतसेचनेन, वार्धक्यविद्या विफला बभूव । कृष्णस्य कष्टं च तदैव नष्टं, शङ्खेशपार्श्वाधिपतिं स्तुवे तम् ॥३॥ अकिञ्चनस्त्वं तव सेवकाश्च त्वद्ध्यानयोगेन धनदीकृताश्च । भवाब्धिसन्तारणयानपात्रं, शङ्खेशपार्श्वाधिपतिं स्तुवे तम् ॥४॥
रागस्य मात्रा त्वयि नास्ति काचित् जनास्तथाऽपि त्वयि रागरक्ताः । अयं त्वतुल्यः खलु ते प्रभाव:, शङ्खेशपार्श्वाधिपतिं स्तुवेतम् ॥५॥ द्वेषस्य लेशस्त्वयि नोपलब्धः, रोषः कृतः कर्मसु यत् तथाऽपि । इयं हि वार्ता तव काऽप्यचिन्त्या, शङ्खेशपार्श्वाधिपतिं स्तुवेतम् ॥६॥ त्वद्दर्शनान्नश्यति पापराशिः, पूर्येत वाञ्छा किल वन्दनात्ते । प्राप्नोति मुक्तिं तव पूजनेन, शङ्खेशपार्श्वाधिपतिं स्तुवे तम् ॥७॥ तुभ्यं नमोऽभीष्टप्रदायकाय, तुभ्यं नमः सङ्कटनाशकाय । तुभ्यं नमो मङ्गलकारकाय, शङ्खेशपार्श्वाधिपतिं स्तुवे तम् ॥८॥
★ आ. श्रीविजयलब्धिसूरीश्वरसमुदायसत्का ॥
३
- सा. मोक्षयशाश्री : *