________________
श्रेयःसागर ! ते पदाब्जयुगलध्यानात् परामर्शतो
निःश्रेयोनुमतिं विधातुमनिशं स्वामिन् ! प्रवृत्तः परम् । विश्वाभभ्रमसिद्धसाधनमहादोषालिभूतः स्थितो
वीरस्तां कृपया सिषाधयिषया सिद्धि परां प्रापय ॥६॥ महावीरस्वामिन् ! क्रमकमलयुग्मे रमतु मे
द्विरेपश्चेतो मे मधुमधुरिमालोलुपमनाः । ततः स्वादं स्वादं गुणगणपरागं गतगदं
क्रमाल्लीनो भूयादचलकमलाङ्के क्रमगते ॥७॥