________________
दृष्टान्तशतकम्
-डो. एच. वि. नागराजराव्
जयन्ति जगति ज्येष्ठा जनजीवातवो जिनाः । शोभन्ते शाम्भवाः श्रेष्ठाः शास्त्रशौण्डाः शमं श्रिताः ॥१॥ कूजत्सु कोकिलेष्वग्रे काकः क्रोशति कर्कशम् । विद्वत्सु भाषमाणेषु मूर्को गर्जति संसदि ॥२॥ पापिनः कर्म निर्मूल्य नर्मदा शर्म यच्छति । लोकस्य शोकमुत्सार्य कविता तनुते मुदम् ॥३॥ मन्थनादेव दुग्धाब्धौ पारिजातसमुद्भवः । विचारादेव वेदान्ते ब्रह्मज्ञानमवाप्यते ॥४॥ ग्रन्थालये कर्म कुर्वन् शास्त्रज्ञानं न विन्दते । सूपे मग्ना सदा दर्वी नाऽऽस्वादयति तद्रसम् ॥५॥ एधितोऽपि गुडावाले निम्बो नोज्झति काटवम् । दुष्टः सज्जति पैशुन्ये मुनिगेहेऽपि वर्धितः ॥६॥ - - आकृष्यन्ते पारिजातकुसुमैर्मक्षिकाः कथम् । नास्तिकेभ्यो न रोचन्ते वेदानामुक्तयः शुभाः ॥७॥ राजन्ति पण्डितम्मन्या मूढानामेव संसदि । बाढं गवयगोष्ठीषु गीतं गायन्ति गर्दभाः ॥८॥ मेधैर्मेदुरमाकाशं दृष्ट्वा नृत्यन्ति केकिनः । पुष्पैः समृद्धमारामं घ्रात्वा गुञ्जन्ति षट्पदाः ॥९॥