________________
संस्कृतानुसर्जनन् लक्षणपूर्णं पूर्णमक्षीणगमनशरीरसम्पत्ति । स्कन्धादिसप्तपृथुलः पुष्करगन्धं ध्रुवावर्तम् ।।८४॥ श्रीकण्ठकार्तिकेयसमबलराजोचितं सुरोमाणम् । अत्याद्रमौलिकुसुमं विषतापविनाशि तनुरजसम् ॥८५।। गङ्गाजलमिव पुण्यं रोगोज्झितमीक्ष्यमाणमपि लोकैः । दत्तान्यस्तम्भाट्टावष्टब्धमङ्गैरचलनेत्रैः ॥८६॥ रक्तं पिकरक्तकलं रविहयशुल्कं किमुन्नीतं नीलम् । मण्डपिकाग्रसमुज्ज्वलचैत्यस्थितदृष्टिसंलक्ष्यम् ॥८७॥ प्रतिप्रभातं पञ्चसु धारासु समासक्तमतिनिपुणम् । बुद्ध्वा भूमिजनेन वर्णितमिति शिक्षया विद्वान् ॥८॥ वृश्चिकनेत्रभुजङ्गमविषहरणक्षेत्रजातधर्माम्बु । खुरघाताक्षमवसुधं सुग्रीवसमानबलवेगम् ॥८९॥ अपि ऋक्षेशसमानैलॊकैः शुभनिश्चयं सदुत्साहम् । लिप्सुभिरक्ष्णः पथ्यमवलोकितमश्वमारूढः ॥१०॥ धवलगेहमतिनिश्चलाकृति-वत्सलश्चुलुकवंशदीपकः । तथ्यदैवतवरेण तत्क्षणो-त्सारिताखिलरुजो ययावसौ ॥११॥
॥ इति द्वितीयः सर्गः ॥
७७