SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ संस्कृतानसर्जनम करणीयाकरणीयं पेयापेयं च ये न जानन्ति । अतिदुष्टा अपि दृष्टे त्वयि जायन्ते विशिष्टगुणाः ॥६०॥ वैकक्ष्योत्तरवस्त्रा धौतक्षौमोत्तरीयधृतवदनाः । विहितस्नपना भवतश्छत्रच्छायां श्रयन्तीह ॥६१।। इति सच्छायः कतिपयपरिवारः कतिपयां स्तुति कर्तुम् । आदिकिरिरिवाऽभीकः प्रावर्तत स जिनस्नपने ॥६२॥ पर्याणिततद्भिन्नैस्तुरगैर्नरपतिभिरागतैरितरैः। कणवीराचितकलशो दृष्टो गौरो हरिद्रावत् ॥६३॥ अर्हति तेन द्वादशरवितेजसि मुखरघण्टघोररवम् । सोदरबलदेवानुजसदृशेन प्रवर्तिताः कलशाः ॥६४॥ तिर्यक्त्वम्लेच्छत्वापुनर्भवार्थं नृपेण किल कृपया । लाङ्कलिलाहला अपि सिक्ता अर्हत्स्नपनसलिलैः ॥६५॥ शशिखण्डललाटाभिर्दुःस्वप्नहरं पुलिन्दभाषया स्त्रीभिः । अनुजिनमकारि गीतं स्वप्नेऽपि सुदुर्लभं स्फीतम् ॥६६॥ द्रढिताः सुनीविकाभिर्नीव्यस्तस्मिन् क्षणे सुनटिनीमिः सविशेषशब्दगीते षड्जादिक्रमोत्क्रमस्फीते ॥६७॥ ता वाणिजरमणीभिर्नपस्नुषावल्लभास्तदा दृष्टाः । पाषाणपुत्रिकाभिर्यथा हि तत्स्तम्भलग्नाभिः ॥६८॥ व्यञ्जितदशविधधातुर्जननी लास्यस्य दशविधस्याऽपि । दिवसे दिवसापगमे सौख्यकरी वादिता वीणा ॥६९।। रञ्जितनरसिंहेन वांशिकसिंहेन वादितो वंशः । दाहार्तदाहहरणोऽमृतधवलान् जिनगुणान् गातुम् ।।७०।। शमिसप्तपर्णगौरी षष्ठी भल्लीव पञ्चबाणस्य । मृगशावाक्षीवरमुखगायनी तालमाधाय ॥७१।। ७३
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy