SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ संस्कृतानुसर्जनम् स्तोता देवं द्वादशरविकान्ति भक्तिसंस्खलद्वाग्भिः । कदली धर्मगजानां कदलिमृदुः क्रोधनिर्मुक्तः ॥४८॥ द्विगुणितदोहदधाराकदम्बधूलीकदम्बकण्टकितः । उज्ज्वलसुवर्णदीप्रतनुकान्तिकदर्थितान्यरुचिः ॥४९॥ त्यक्त्वा नृपककुदानि निषधादिनृपस्य धर्मसंशिक्षाः । औषधमिव चौषधिकः सददन्नैषेधिकीं कृत्वा ॥५०॥ निजनामाङ्कितभवनं यथा नभस्वानपूर्वसारेण । प्रज्वलितानलतेजास्तद्भक्त्या ततः प्रविष्टः सः ॥५१॥ कुटिलाशयकुटिलवयाः कलिपातकमूर्खनापितादर्शाः । धर्मारयोऽपि तस्मिन् दृष्टे धर्मोन्मुखा भूताः ॥५२॥ पनसपारिभद्रदीर्घबाहुपरिघनियोजितललाटः सः । अपरुषवचसा पाटितमोहो जिनसंस्तुतिं चक्रे ॥५३।। परिखाजलं प्रभूतकमलैर्विपिनं यथा यथा नीपैः । नीपकुसुमशेखर ! तव पादैर्मही तथा भाति ॥५४॥ तव कृतकुसुमापीडा नाशितपापधिमुख्यवृजिनौघाः । मुक्ताफलविमला इह रेफा इव भवन्ति मूर्धन्याः ॥५५॥ सफलं जननं तेषां जीवितमपि देव ! तादृशं तेषाम् । चम्पकशबलैबिसिनीकुसुमैरर्चन्ति सर्ववन्द्यं त्वाम् ॥५६॥ अकबन्धशिरसि युद्धे स्मरणेन तवाऽशिरःकबन्धबन्धेऽपि । कैटभरिपवो यथा नृपा विषमाविषमं न जानन्ति ॥५७॥ ममन्थ पिताभिमन्युरभिमन्युपिताऽपि तिरस्कृतस्तेन । मधुकरमेचक ! भवतश्चरणभ्रमरायितं येन ॥५८॥ तव पञ्चमचारित्रे न समो यमिनामहो ! यथाजातः । तपसा कृशतनुयष्टिरपि च कुदृष्टिः प्रभो ! पार्श्व ! ॥५९।। ७१
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy