________________
संस्कृतानुसर्जनम्
केशवसकटारिसटालविक्रमः स्फटिकविमलनेपथ्यः । पाटितकुम्भोऽथ पाटयन् गगनं च चपेटयाऽक्लान्तः ॥३६।। पिठरः सकलकलानामशठोऽङ्कोठस्य तैलवत्स्निग्धः । लघुजठरपिठरप्रतिकारपातनातविहितलीलः ॥३७॥ स्कन्धदृढहारनाडि प्रक्षिप्यन् निबिडकक्षनाडिमिभम् । उद्वेण्वतितीव्राङ्कुशवेणुभिरभितो वृतः कामम् ॥३८॥ कालागरुकर्पूरधूपमहमहितनगरशुचिवस्त्रः । प्राप्तः कुमारचैत्ये तूवरप्रतिहारधृतपाणिः ॥३९॥ सुप्रतिष्ठं सुपताकं वेतसदलनीलभित्तिगर्भितकम् । अतिमुक्तकफुल्लगृहं रोदनहरणं कुमाराणाम् ॥४०॥ अतसीसुमकृतशोभं द्वासप्ततिकलमतीव जनसौख्यम् । पीतकरं पलितानां कुङ्कुममिश्रस्नपनसलिलम् ।।४१॥ अतिपीतधातुनिर्मितवितस्तिमितमातुलिङ्गभूषणकम् । भरतजिनभवनसदृशं मङ्गलवसतिं श्रियोवसतिम् ॥४२॥ अथ कातरभव्यजनं शिथिलितकलिकालमशिथिलानन्दम् । नगरस्य नाभिभूतं प्रथमं तीर्थं यथा जगतः ॥४३॥ पृथिवीनिशीथतामस-रजनीनाथाभसौम्यजिनबिम्बम् । खण्डितदाम्भिकदम्भं प्रोद्दण्डस्वर्णमयदण्डम् ॥४४॥ दरितानां दरहरणं दग्धागरुदग्धधूपशुभगन्धम् ।
अहिदशनदष्टसरणं दशनव्याजक्षतध्वान्तम् ॥४५॥ दाहार्तदाहहरणं सदोहदानां च पूर्णदोहदकम् । कदनमतिमुक्तकदनं दर्भाङ्कुरनीलरत्नाभम् ।। कुशाग्रबुद्धिरीषद्दोलितशीर्षं विकम्पहृदयेन । प्रदशन्नधरं दूरं प्रदहन् मिथ्यात्विनो लोकान् ॥४७॥
६९