________________
संस्कृतानु सर्जनम्
बालार्कमुखः सुखकरगर्जिः सुखकरगतिः स्तुतश्चेति । जगदागमितो बहुतरसंज्ञातकलाभिरत्यर्थम् ॥२३॥ पतिर्जलस्थलचरयोर्यस्य चिह्नं रुषापिशाची सः । मित्रेष्वपि सुभगो यदि तादृक् त्वैरावणो नाऽन्यः ||२४| सकराकुञ्चनरम्यो नृत्यति संप्राप्यते शिवे तुष्टे । अतिमुक्तसुरभियामुनजलमदपट्टो महातेजाः ||२५| अतिमुक्तकबिन्दुकरोऽप्यतिमुक्तकगौरदन्तवानेषः । शापच्युतोऽप्यसौ खलु, देवगजाभो महीपृष्ठे ॥२६॥ अच्छकचकर्णचिबुको मधुपिङ्गललोचनो मृगाङ्कनखः । पिबतीव हि लावण्यं परगजवृन्दस्य कुम्भोच्चैः ||२७|| कर्परकीलककुब्जककुसुमसमा यस्य नगस्तम्भनगाः । रुद्धक्षुतकाशितको मदोत्कटः प्रेक्ष्यते ह्यशेषः ॥ मरकतकन्दुकसदृशालिगुच्छगण्डे नृपः समारूढः । भिल्लानिव जयति परान् श्रीकण्ठकिरातवृन्दवीराभान् ॥ जितघनशीकरगङ्गाशीकरचन्दिरसुशीतशीकरकः । स्फटिकामलसर्वनखो निकषभ्रमकुन्तलोऽप्येषः ॥२८-२९-३०॥ पृथुजघन: साधुमुख: सर्षपखलकटुकसलिलकश्चपलः । नृपयोग्य: खल्वेष प्राप्तस्तुर्यां मदावस्थाम् ॥३१॥ अथ भूपतिधर्माऽसौ गगने प्रावृड्ङ्घनो यथा पृथगिन्द्रः । अपृथगिवासनपद्मा-दनिगडकं तं समारूढः ||३२|| पुन्नागदामशाली पौराभिर्भामिनीभिरभिदृष्टः । छागाङ्कदेवतेजाः सुभगो रतिवल्लभो राजा ||३३|| इन्द्रो दुर्भग आसीत्सुरवनितानां तथैव चन्द्रोऽपि । तस्मिन् तदा हि दृष्टे मणिखचिताभरणखचिताङ्गे ॥३४॥ वेशपिशाचो मूर्त्या भीषणदृष्टिस्तथा पुनर्जटिलः । खट्वाङ्गघण्टभूषो रुद्धे नाटति यथा पुरतः ||३५||
६७