SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ संस्कृतानुसर्जनम् अथ कौक्षेयकहस्तः कौक्षेयककौशलेन दृष्टः सः । कोऽप्येष खड्गसिद्धपुरुष इतीत्थं समैः पौरैः ॥१०॥ अभ्यासगौरवेण गोपितसर्वाङ्गगौरवः फलके । षडधिकचत्वारिंशद्गुण इव नावाकारेऽभवत्सोऽपि ॥११॥ तरुणायस्कृवृन्दैर्बहुभिर्घटिता च दुर्वहा शक्तिः । विचकिल: कदलव्यूहं भ्रमयित्वेवोपरि क्षिप्ता ॥१२॥ भो भो इति ब्रुवाणैविचकिलकदलीमुखैश्च फलपुष्पैः । कर्कन्धुपूगमानिभिरतुलं महिता च सा योधैः ॥१३॥ नूतनफलनवमल्लीसुकुमाराभिः सकान्तिकिरणाभिः । तस्योद्भ्रमितं लवणं कोमलभाशालिनस्तस्य ॥१४॥ सर्वमनुचतुर्गुणको भुवनचतुर्दशकपतिचतुर्गुणः।। तुर्येऽपि युगे त्रिपुरुषचतुर्थको लक्षितः स तदा ॥१५॥ शाकखदिरलोहानां शिला विरचिता उलूखलाः सर्वे । चक्रेण तेन दलिता भूयोभूयश्चतुर्वारम् ॥१६।। इति कृतकुतूहलौघः कौतुककुशलैश्च तर्कितो राजा । किं कृष्ण एष लोके ? भरतेश्वरचक्रवर्ती किम् ? ॥१७॥ अपकारिष्वपकारक्षमेण तेनाऽपशब्दरहितेन । सत्प्राससकलाभ्यासे भग्ना स्फूर्तिः सुयोधानाम् ॥१८॥ पञ्चाशत्पलमानो ज्वलनः किं किं रविः करे तस्य ? । उपहसितभार्गवस्योपहसितपविरपि महापरशुः ॥१९॥ सूलकला विनिषण्णः सीरनिषण्णश्च कीर्तिप्रावरणः । स कृत्तिप्रावरणं शितिप्रावरणं जहास मुदा ॥२०॥ अथ राजपाटिका) नागोऽप्यानायितोऽरिसम्मर्दः । पृथिवीन्द्रेण तदाऽगरुसुरभिमदः सुमाभरणः ॥२१॥ सचमरको विदुरो गतपापे देवदुर्जनो विजने। सोऽपि धृतः परवारणकवलननक्तञ्चराचारः ॥२२॥ ६५
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy